SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आसीद् बेचरदासस्य स्वसा प्रियतरा गुणैः । चञ्चलाख्या तया साकं चिक्रीड क्रीडनैरयम् ॥१६॥ पञ्चवर्षीयबालेस्मिन् वर्तमाने दिवं गता। माता, शुचाऽऽहतस्तेन 'शिशूनां सा हि जीवनम् ॥१७॥ तातेन पाल्यमानोऽयं जीवीबाईतिसंज्ञया । पितृस्वस्रा सुखं प्राप ‘पोषणं दुःखशोषणम् ॥१८॥ साठम्बाख्ये पुरे तिष्ठन् पित्राऽयं प्रेषितः शिशुः । श्रीविद्यालयमध्येतुं विद्या सर्वार्थसाधिनी ॥१९॥ कक्षा अभ्यस्य षट् तत्रोत्तीर्णवान् स धिया स्वया । 'सुधियां दुर्लभं लोके किमस्ति व्यवसायिनाम् ?' ॥२०॥ चञ्चलाख्या स्वसा मृत्युं गता सुप्रीतिभाजनम् । मासान्तरं च वप्ताऽपि प्राप्तवान् स्वर्गभूमिकाम् ॥२१॥ अनयोर्मृत्युदुःखेन वज्रेणेव हतः शुचा । कामं बेचरदासो ही 'संयोगो दुःखकारणम् ॥२२॥ तदा कौटुम्बिका लोकाः स्वार्थपूरणतत्पराः । तस्य धनं च पात्राणि जर्छस् ! भूषणान्यपि ॥२३॥ सुधी.चरदासस्तद् दौष्ट्यं कपटनाटकम् । तेषां ज्ञात्वा प्रबुद्धोऽभूत् स्वार्थिसंसारनीरधेः ॥२४॥ अवशिष्टं गृहीत्वा तद् द्रव्यं जगाम दुःखितः । देहग्रामे निजे ग्रामे मातलस्य गृहेऽवसत् ॥२५॥ तत्र श्रीचूनिलालाख्यः कानुनीत्युपनामवान् । साधुवत् श्राद्धरत्नः स भव्यान् भव्यमुपादिशत् ॥२६॥ तस्मान्महात्मनो ज्ञानमेष चरित्रनायकः । शुद्धां श्रद्धां च लेभिवान् ‘सज्जना ह्युपकारिणः' ॥२७॥ आजीविकार्थमातेने तेन सेवा परापणे । धातूचन्द्रादिसाधूंश्च ददर्श प्रथमं सुधीः ॥२८॥ पुनानाश्चैकदा प्रीत्या धर्मसूरीश्वरा भुवम् । निधिबाणाङ्कचन्द्रेऽब्दे(१९५९) काशी प्रयातुमाययुः ॥२९॥ तानुदारानदारांश्च निभाल्य चरिताधिपः । मुमुदेऽयं सुधाशुं वा चकोर: कुमुदं यथा ॥३०॥ ३७
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy