SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ न मया पूजिता देवा न मया मन्दिरं श्रितम् । अटितं तीर्थजातं नो धृतं वृत्तं समञ्जसम् ॥७६॥ पित्रोर्येषां पर भक्तिः वृत्तपूतञ्च जीवनम् । तेषां मुष्टौ सदा मुक्तिर्नाऽन्यो धर्मोऽप्यपेक्षितः ॥७७॥ यशस्करी पापहवी धर्मार्थकामसाधिका । शिवेतरक्षतौ शक्ता सङ्कटघ्नी सरस्वती ॥७८॥ जिताः सपत्ना धैर्येण जिताः सर्वा विपत्तयः । धैर्येणैवाऽखिलं लब्धं तस्माद धैर्यं ममेश्वरः ॥७९॥ निर्वाप्यते यथा वहिनः प्रोज्ज्चलनपि वारिणा । तथैव शाम्यति क्रोधः सोढं सोढं स्वयम्भूतः ॥८०॥ कोकिलानां वरं मौनं मौकुलीनां हि काहले । विलीयते घनध्वाने मृदङ्गध्वनिमाधुरी ॥८१॥ सर्वं सोढं मया पापं जन्मजन्मान्तरार्जितम् । इतिकृत्वैव नो कश्चित् शत्रुरूपो मयेक्षितः ॥८२॥ आयुषि सत्यपि ध्वस्ताः प्रतीकारपरायणाः । सहिष्णवश्च जीवन्ति सुखं मानयशोधनाः ॥८३॥ यस्मिन् देशे वसेद् द्वेष्टा स हातव्यो नु तत्क्षणम् । अन्यत्र वसतिं कुर्यात् सुहृदस्ति पदे-पदे ॥४॥ नो निर्वहति या प्रीतिं सा कुलीनाऽपि पुंश्चली । तत्स्मृतौ न क्षणो देयो दुःस्वप्नमिव विस्मरेत् ॥५॥ पूच्छन्ति केचिदिह मां वेश्या-पल्योः किमन्तरम् ? निष्ठयैव भवेत्पत्नी वेश्या प्रीतावनिष्ठया ॥८६॥ सक्ता जारेषु चेद् भार्या वेशवाटस्तदा गृहम् । वेशाङ्गनाऽऽत्मनिष्ठा चेद् वेशोऽप्यात्मगृहं तदा ॥८७॥ जलदाम्बून्यनादाय निरङ्कुरो यथोषरः । तथा सुखान्यनागृह्य निराकाङ्क्षो भवेत्पुमान् ॥८८॥ भिन्नतैव जगद्योनिभिन्नता नो घृणास्पदम् । कारणं सन्ततीनां किं पतिपत्न्योर्न भिन्नता ?? ॥८९॥ २०
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy