________________
निवृत्यैते पुनः प्राप्ता मथुरां प्राक्तन पुरीम् । पुरातत्त्वस्य धर्मस्य स्थानान्यालोक्य च मुदा ॥ १०८ ॥ तेनैव वर्त्मनाऽऽगत्य चोग्रसेनपुरं पुनः । तस्मात् शिवपुरीमेते विहृत्य गुरुबन्धुभिः ॥१०९॥ चन्द्रदिग्निधिभूम्यब्दे(१९८१) श्रीगुरुमन्दिराश्रये । आगमन् पाठशालाया वृद्ध्यै सुकृतनिश्चियाः ॥११०॥ पाठशाला च मुम्बायां गुरुभिः स्थापिता पुरा । मुम्बापुरोऽव्यवस्थाया नीता वाराणसीं पुरीम् ॥ १११॥ तत्र गन्तुं गुरुस्वर्गादनिच्छद्भिः सुशिष्यकैः । तत आग्रापुरे तस्मादानीता शिवपत्तने ॥१११॥ कृपया गुरुदेवानां पाठशालाऽनिशं क्रमात् । छात्रैर्धनेन कीर्त्येषां तत्र यत्नादवर्धत ॥ १११ ॥ पाश्चात्याः पूर्वदेशीया आगत्य पण्डिता मुदा । अस्यां सुपाठशालायां नानाग्रन्थानपाठिषुः ॥ ११२॥ श्रीविद्याविजयाः पूज्याः कार्यदक्षतया स्वया । व्यवस्थालेखवक्तृत्वैः पाठशालामवर्धयन् ॥११३॥ ग्वालीयरमहाराजौ राज्ञ्यौ तथाऽधिकारिणः । उपदेष्टृमुखा एते उपादिशन् मनोहरम् ॥११४॥ परःसहस्ररूप्याण्युपदीकृतानि नैकशः । राज्येन पाठशालायां मुनीनामुपदेशतः ॥ ११५ ॥ चार्लोटे क्रौझे नाम्नाऽऽगाद् जर्मनीदेशपण्डिता । जैनसाहित्यमध्येतुमुत्सुकाऽत्र स्वदेशतः ॥११६॥ विद्याविजयमिश्राणां शिवादिपुरि पार्श्वतः । पुराणगूर्जरभाषां सा पेठुषी जिनागमान् ॥११७॥ तस्या नामान्तरं ख्यातं, भारतीयगुणानुगम् । सुभद्रा शब्दतो देवी भारते चाऽभिधीयते ॥ ११८ ॥ युग्मम् ॥
४३