________________
जैनदर्शनसत्कतत्त्वविभावना:-२
मुक्तिः
मुनित्रैलोक्यमण्डनविजयः आवश्यकसूत्रेष्वन्यतमे पाक्षिकसूत्रे जैनधर्मस्य स्वरूपं परिचाययद्भिर्महर्षिभिः 'अहिंसैव जैनधर्मस्य प्राणभूते'ति सूचयितुं जैनधर्मस्य विशेषणत्वेन प्रथममेवोपन्यस्तं – 'अहिंसालक्खणस्स' (अहिंसालक्षणस्य) इति । अनेन जैनशास्त्रोक्तसकलविधिनिषेधानां हार्द हिंसाविरतिरेवेति तु फलितं भवत्येव, परं लक्षणमतिव्याप्त्याऽपि रहितं भवतीतिकृत्वाऽन्यधर्मस्थोऽप्यहिंसापरिपूतो व्यवहारो जैनैरनुमोदित एवेत्यप्यनेन ध्वनितं भवति ।
यद्यपि लोकः परप्राणवियोग-परपीडनादित्यागमेवाऽहिंसां मन्यते, विचारकाः पुनः परानिष्टचिन्तननिवृत्तिमप्यत्र समावेशयन्ति; तथापि 'अहिंसा परमो धर्मः, अहिंसैव जिनाज्ञासार' इत्यादि ब्रुवतां जैनाचार्याणामभिमताऽहिंसा वस्तुतस्ततोऽतिसूक्ष्मा । तथाहि- आत्मस्वरूपं सम्यग्ज्ञानदर्शनचरणमयम् । जीवानां या या अशुभा वृत्तिप्रवृत्तयस्ताः सर्वा अप्येतत्स्वरूपस्याऽऽच्छादिकास्तन्नाम घातिका भवन्ति । स्वरूपस्यैष घात एव हिंसा, यथा च स्वरूपमविकृतमेव तिष्ठेत्तथाऽवस्थानमेवाऽहिंसा । यतः सर्वा अपि जिनाज्ञाः स्वरूपस्योद्घाटनमेवोपदिशन्ति ततोऽहिंसैव जिनाज्ञासारः । धर्मस्य परमलक्ष्यीभूता मुक्तिः स्वरूपप्राकट्येनैव साध्येति तद्रूपाऽहिंसैव परमो धर्म इति ।
अस्या अहिंसाया यत किमपि रूपं भवेत, परं तदद्भवस्थानं स्वस्याऽन्यसत्त्वैः सह वास्तविकसमानतायाः संवेदनमेव । यतो यावद विचारस्तरे सर्वभूतेष्वात्मौपम्यं नाऽवतरेत् तावदाचारेऽहिंसायाः प्रतिष्ठा नैव भवेत् । किमधिकेन ? आगमेष्वप्यहिंसाया व्याख्यानरूपेण स्वस्य सकलव्यवहारेषु परैः सहाऽऽत्मसाम्यविचारस्याऽवतारणमेव दर्शितम् । सत्यमेवैतद्, यत आत्मनि यावान् स्नेहस्तावान् परेष्वपि भवति चेत् कथमस्मद्धस्ताभ्यां परदुरवस्थापादनं सम्भवेदिति ।
इदमात्मसाम्यभावनाप्राधान्यं न केवलं जैनानामाचारपरिधावेव सीमितमपि तु जैनदर्शनचिन्तनेऽप्यस्य प्रसारः । जैनानां दृढं मन्तव्यं यत् सर्वेऽप्यात्मानः सर्वगुणैः समाना एव । यत् पुनर्दृश्यमानं वैचित्र्यं तद् गुणावृत्यनावृतिरूपवैषम्येण जनितं, तत् पुनः कर्ममूलकं न तु सहजम् । सहजस्त्वात्मिकविकाससम्पादनाधिकारः सिद्धीभवनाधिकार ईश्वरत्वप्राप्त्यधिकारश्च । नीचातिनीचयोनिं गतोऽपि क्षुद्रातिक्षुद्रावस्थापतितोऽपि च जीवः प्रबलपुरुषार्थेन बन्धनग्रस्ततां विच्छिद्य मुक्ततामधिगन्तुं समर्थ एवेति सघोषमुक्षुष्यते जैनैः ।
यद्यपि केचन जीवाः शास्त्रे 'अभव्य(= मोक्षार्थमयोग्य)' रूपेण परिगणिताः । तथाऽपि तत् परिगणनं नाऽऽत्मौपम्यबाधकतिरस्कारजमपितु योग्यताभेदसूचकम् । अनादिसंसिद्धोऽयमभव्यभव्ययोर्जीवाकाशयोरिव स्वभावकृतो भेदः । आत्मनः कस्यचित् तादृश्येव 'भवितव्यता'विशेषरूपा नियतिर्भवति यया खलीकृतः स मोक्षार्थं नैवोत्सहते । सत्यनुत्साहे कथं मोक्षोपायवार्ताऽपि? एवं मोक्षार्थं कदाचिदप्युद्यमी
४४