SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ न भविष्यतीति सोऽभव्य उच्यते । ___ ‘एवं सति “अहं मुक्तिगमनार्हः स्यामुत ने"ति संशयितमानसस्य तदुपाये उत्साहो न स्या'दिति केचनाऽऽक्षिपन्ति । परं न तद् युक्तं - तच्छङ्काया एव तन्निश्चयहेतुत्वात्, आत्मनि भव्यत्वशङ्काया भव्यत्वसत्ताया व्याप्यत्वात् । आत्मन्यणीयस्याऽपि शमादिसम्पत्त्या तन्निश्चयसम्भवाच्च । मोक्षोद्यमात् पूर्वमपि स्वभावतो दर्शनान्तरप्रणीतपूर्वसेवाद्याचरणेन वा मनाक्शमादिसम्पत्तिः सुसम्भवैव ।। क्रमशः सर्वभव्यानां मुक्तिगमने संसारो भव्यशून्यो भविष्यतीत्यापत्तिर्भव्यराशेरनन्तत्वस्वीकारेण न सम्भवति । प्रतिक्षणं कालस्य हानौ सत्यामपि संसारः कदाऽपि कालशून्यो न भविष्यतीत्याधुदाहरणान्यत्र द्रष्टव्यानि । यदाकदाचिदपि मुक्तिजीवराशिव्यजीवराशेरनन्तभागमात्र एव भवति । इदमेवाऽनेनाऽपि सिद्धं भवति यत् केचन जीवा भव्यत्वे सत्यप्यनन्तकालं यावत् सहकारिकारणान्यलभमानाः संसारे एव भ्रमणशीला भविष्यन्ति । एते 'जातिभव्या' उच्यन्ते । नैतेऽभव्याः - अयोग्यताऽभावात् । भव्यत्वमेतद् दार्वादौ प्रतिमादियोग्यताकल्पं विभावनीयम् । जैनदर्शनस्याऽनेकान्तदृष्ट्यनुसारं मोक्षोपायेष्विदन्ताऽऽग्रह इयत्ताऽऽग्रहो वा नाऽस्ति । किं बहुना? जैनधर्मोपासनेऽपि नैवाऽभिनिवेशो जैनाचार्याणाम् । 'रागद्वेषविलय एव मुक्तिहेतुः, यः कोऽपि येन केनाऽप्युपायेन तं साधयति स मोक्षाधिकारी'ति तेषां समुदारघोषणा ।५ बहुश उपलभ्यते जैनशास्त्रेष्वन्यसम्प्रदायानुसारिणां केनचिद्धेतुना रागद्वेषविलये सति मुक्तिगमनस्य वर्णनम् । नन्वेवं समुदारविचारधारायां सत्यामपि कथं जिनाज्ञाबहिर्भूतानां तत्र तत्र निन्दा कृता ? किं सा निन्दा न सम्प्रदायान्तरतिरस्कारसूचिकेति केचनाऽऽक्षिपन्ति । परमभिप्रायापरिज्ञानमूलकं तत् । तथाहिजिनाज्ञाया मुष्टिरेकैव - आत्मानं मलिनीकुर्वाणानि तत्त्वानि निवारय, आत्मोन्नतिं च साधयेति । य आत्मनः कल्याणं सम्पादयति, स कस्मिंश्चिदपि मते आस्थावान् सन्नपि परमार्थतो जिनाज्ञापालक एव । यस्तु विषयगृद्ध एव स जैननियमानां पालकः सन्नपि तत्त्वतो जिनाज्ञाबहिर्भूत एव । इत्थं च जिनाज्ञाननुपालकानां निन्दाया आत्मकल्याणप्रेरणायामेव पर्यवसानम् । एवमेव दर्शनान्तरमतखण्डनं सम्प्रदायान्तरविधिनिषेधदूषणं च जैनाचार्यैर्यद् विहितं तद् न तथा पारमार्थिकात्मशुद्धः सम्भव इति बोधयितुमेव। अत एव पारमार्थिकात्मशुद्धिसम्पादको धर्मो जैनेतरशास्त्रप्रतिबोधितोऽप्यनुमोदित एव जैनाचार्यैः ।। अथ मोक्षवार्ताऽऽरभ्यते । तत्र मोक्षास्तित्वे एव केचन विप्रतिपत्तिमन्तः । तदुत्थापिता मोक्षसत्त्वबाधिका युक्तयश्चेमाः – १. कर्मक्षय एव मोक्षतया भवदभिमतः । तत्र क्षयमुपगच्छतां कर्मणामात्मना सह सम्बन्धः सादिर्वाऽनादिर्वा ? सादित्वे तत्सम्बन्धात् पूर्वमात्मनो मुक्तत्वापत्तिः । तथैवाऽस्त्विति मनने त्विदानीं कर्मक्षयं कृत्वा मुक्तस्याऽपि पुनर्बन्धापत्तिः । कर्मबन्धस्याऽनादित्वे तु 'क्रियते इति कर्मे'ति व्युत्पत्त्यर्थान्वयानुपपत्तिः, तत्सम्बन्धविच्छेदस्याऽसम्भवश्च – योऽनादिः सोऽनन्त इति व्याप्तेः । २. अमूर्तस्य गगनस्य बन्धमोक्षौ न भवत इति तादृशस्यैवाऽऽत्मनो बन्धमोक्षौ कथम् ? ३. कर्मपुद्गलानां च समग्रलोकव्यापित्वं भवदभ्युपगतम् । अथाऽऽत्मा संसारी स्यादुत मुक्तः स्यादवस्थानं तु तस्य लोके एवेति
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy