SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ लक्ष्मीचन्द्रादिसद्भक्तै नै नेतरैरपि । एषामप्युपदेशाच्चाउर्पितं बहुधनं जनैः ॥११॥ नवर्षिनिधिचन्द्रेऽब्दे(१९७९) माघसुपूर्णिमादिने । वैक्रमे गुरुमूर्तिस्तच्छिष्यैः पुण्या प्रतिष्ठिता ॥१२॥ अथ विद्याविजेतारो जेतारो दोषविद्विषाम् । स्मृत्वा गुरुगुणान् लोके सदा प्राचारयन् मुदा ॥३॥ शिवपुर्य्या विहृत्यैते भूत्वा गोपगिरी पुरे । उग्रसेनपुरं प्रापन् प्रबन्धस्वामिनः सुखम् ॥४॥ लक्ष्मीचन्द्राहदानीशो धनी श्रेष्ठी नतोडमलः । तत्राऽऽसीत् धर्मसूरीणां भक्तो मुख्यो महाशयः ॥१५॥ श्रेयोर्थं श्रेष्ठिना तेन सुपार्श्वजिनमन्दिरम् । सूरीशग्रन्थरक्षार्थं मन्दिरं च व्यधापयत् ॥१६॥ श्रेष्ठिना प्रार्थिता भक्त्या कल्याणपदसम्पदे । तत्प्रतिष्ठाविधानार्थं सूरिशिष्या विपश्चितः ॥१७॥ आमवणात् समायाताः बहुसङ्ख्या जनाः पुरे । व्ययेन लक्षरूप्याणां कृतं वरं महोऽद्भुतम् ॥८॥ निधिसाधुनवेन्द्वब्दे(१९७९) विक्रमाद् वीरतः पुनः । गोवेदोदधिनेत्राब्दे(२४४९) सुलग्ने च शुभे दिने ॥७९॥ त्रिभिर्विशेषकम् ॥ श्रीविद्याविजयैः पूज्यैः सह तैर्गुरुबन्धुभिः । प्रतिष्ठा श्रीजिनग्रन्थालययोः सह कारिता ॥१००॥ युग्मम् ॥ 'विजयधर्मलक्ष्म्याख्यज्ञानमन्दिरमध्यतः । गुरुमूर्तिरिटालीया स्थापिता धातुजा वरा ॥१०१॥ आचार्यपदं तत्रेन्द्रविजयेभ्यो महोत्सवात् । मङ्गलविजयेभ्योऽप्युपाध्यायपदमाददे ॥१०२॥ तत आर्यसमाजस्य वृन्दावनं निमवणात् । पाठशालोत्सवे जग्मुरिमे श्रीगुरुबन्धुभिः ॥१०५॥ स्थित्वा तत्रैव निर्ग्रन्थौश्चतुर्मासी समं समैः । ज्ञानमन्दिरगग्रन्थव्यवस्थेतैर्वताऽद्भुता ॥१०६॥ पञ्चदशसहस्राणां सभामध्ये नृणां तदा । प्रार्थिताः भूरिभिः पूज्या व्याख्यानत्रयमाददुः ॥१०७॥ ४२
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy