SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सूरिभिस्स्थापिता तत्र वीरतत्त्वप्रकाशिका । पाठशाला वरा तस्या नियमास्तेन योजिताः ॥७६॥ अन्यदा धर्मसूरीशा व्याधिग्रस्तकलेवराः । एनं विद्याविजेतारं जयन्तविजयं तथा ॥७७॥ आहूयोपादिशन् शिष्यौ ! "तथाहि- सह सर्वथा । स्थातव्यं प्रीतियोगेन युवाभ्यां क्षीरनीरवत्" ॥७८॥ युग्मम् ॥ क्रमशश्चर्करीति स्म चतुर्मासीद्वयीं मुदा । पूज्यो विद्याविजेता श्रीविद्यावदिनमस्कृतः ॥७९॥ खानदेशे महाराष्ट्रे ततोऽटित्वा च जग्मिवान् । थूलीयानगरे तस्थौ चतुर्मासी सतां प्रियः ॥८०॥ तत इन्दोरपुर्यां च गुरुभिः श्वासरोगगैः । शिवपुर्यामगादेष भजमानो गुरुंस्ततः ॥८॥ यथा सिंहशिशुः सिंहगुणान् करिगुणान् करी । गुरुसार्धं वसन् लेभे गुरोरेष गुणांस्तथा ॥८२॥ सिषेचे गुरुदेवाँस्तान् श्रीविद्याविजयः कृती। दिवा निशं त्रिधा भक्त्या साफल्यं जन्मनो नयन् ॥८३॥ श्वास-शोफं- गुरोश्चाऽथ नदीपूरमिवैधत । रोगोऽसाध्योऽसहा पीडा सेहे तैः सूरिभिर्मुदा ॥८४॥ रोगातैरपि चित्तेन प्रसन्नैर्धर्ममर्मतः। सर्वमोहं त्यजद्विः सन्ध्यायद्विश्चेतसार्हतः ॥८५॥ सिद्धिमुन्यङ्कशीतांशुवर्षे (१९७८) शिवपुरीपुरि । भाद्रशुक्लचतुर्दश्यां स्वर्लभे धर्मसूरिभिः ॥८६॥ युग्मम् ॥ पुत्रस्य मातृमृत्योर्वा कज-कैरवयोपुनः ।। पुष्पदन्ततिरोधानादवस्थेवाऽभवद् मुनेः ॥८७॥ गुरुमोहोऽपि सन्त्याज्यो भिक्षुभिर्मोक्षकाक्षिभिः । तथाऽपि सहजो मोहो निरोद्धं नैव पार्यते ॥८॥ मन्युमुक्तः शनैर्बुद्धो विज्ञाय भवितव्यताम् । खादीवस्त्रपरिधाने मनसा निश्चयः कृतः ॥८९॥ गुरुशिष्यैर्विनिश्चित्य गुरुकीर्तिविवृद्धये । स्मृत्यै च विहितैतै ः स्मारकनिधियोजना ॥९॥
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy