SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विद्वज्जनकुलावतंसेन पूज्यपादश्रीहरिभद्रसूरिणाऽपि प्रोक्तं च 'सेयंबरो य आसंबरो य बुद्धो य अहव अण्णो वा । समभावभाविअप्पा लहइ मक्खं न संदेहो ।। (सम्बोधप्रकरणम् - ३) बन्धो ! जैनदर्शनमनेकान्तवादिदर्शनमस्ति । अत्र सर्वेषामपि स्वीकारोऽस्ति, न कस्यचिदपि तिरस्कारः । अस्मिन दर्शने सङ्कचितताया ममत्वस्य च त्ववकाश एव नाऽस्ति । ये मां पूजयन्ति प्रशंसयन्ति च, ये मम दर्शनं स्वीकर्वन्ति ते एव सिद्ध्यन्ति न कत्राऽप्युक्तम । वस्ततो जैनदर्शनानुयायिन एव सिद्ध्यन्ति, नाऽन्ये - इति केनाऽपि कुत्रचिदपि च नोक्तम् । न चाऽन्येषां निन्दाऽवहेलना चाऽपि कृता । गूर्जरनरेशश्रीसिद्धराजजयसिंहस्य विज्ञप्त्या श्रीहेमचन्द्रसूरिणा गूर्जरराज्ये श्रीसोमनाथमहादेवस्य स्वहस्तेन प्रतिष्ठाऽपि कृता तथा तदैव 'श्रीमहादेवस्तोत्र'नाम्नी स्तुतिरपि रचिता । तत्राऽनेकरीत्या स्तुतिं कृत्वाऽन्तिमश्लोके सूरिणा गदितम् भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥४४॥ एवमनेकग्रन्थेष्वपि तीर्थकरसिद्ध-अतीर्थकरसिद्ध-स्वयम्बुद्धसिद्ध-अन्यलिङ्गसिद्ध-गृहिलिङ्गसिद्धइत्यादिपञ्चदशप्रकारैः सिद्धा वर्णिताः । एतेनैव ज्ञायते यः कश्चिदपि मोक्षं गन्तुं समर्थोऽस्ति तथा जैनदर्शनं साम्प्रदायिकतामुक्तदर्शनमस्ति, इति । तथाऽप्याश्चर्यमेतदेव यत्, सर्वेषामपि धर्मसम्प्रदायानामुपासका: “अस्माकं धर्मशासनं योऽङ्गीकरोति स एव मोक्षस्य कृते योग्योऽस्ति, यो नाऽङ्गीकरोति तस्य कल्याणं न भवेत्- इति मन्यन्ते कथयन्ति च' । एतद् विषं तु सर्वत्र प्रसृतमस्ति । भो ! महावीरेण बुद्धेन रामेण कृष्णेन पयगम्बरेण ईशुना वैतादृशंन कदाऽप्युक्तं, किन्त्वेतादृशं दुराग्रहयुक्तं मिथ्यावचनं त्वस्मादृशा महत्वाकाङ्क्षिणोऽहङ्कारिणश्चाऽनुयायिन एव वदन्ति । अत्र कैश्चित् स्वमताग्रहेण, कैर्मतस्य प्रगाढभक्त्या, कैश्चाऽन्येभ्यो वयं श्रेष्ठा इति प्रस्थापयितुमेवमुक्तम् । स्वमहत्ता प्रस्थापयितुं किञ्चिद् नूतनमेव करणीयं स्यादिति मत्वा तैस्तैर्महत्त्वाकाङ्क्षिभिरनुयायिभिः स्वस्वसम्प्रदायेषु नवनवा मान्यता प्रस्थापिता । अन्ते सा सा मान्यतैव तत्तदर्शनरूपेण परिणता । अस्याः प्रवृत्त्याः फलमेतदागतं यद्, धर्मसम्प्रदाया मानवेभ्यो मानवान् भिन्नीकरणस्याऽहङ्कार-रागद्वेषादिप्रवर्धनस्य च साधनरूपाः सञ्जाताः । महावीरस्य बुद्धस्य चोपासका 'वयं श्रेष्ठाः', कृष्णस्य रामस्य चोपासका 'वयं श्रेष्ठाः', एवं सर्वेऽपि धर्मोपासकाः स्वमेव श्रेष्ठा मन्यन्ते, अन्ये सर्वेऽपि निम्ना इत्यादयो बहवो विकल्पा जाताः । श्वेताम्बरश्च आशाम्बरश्च बुद्धश्चाऽथवाऽन्यो वा। शमभावभावितात्मा लभते मोक्षं न सन्देहः ।। (एतदपि दर्शनीयम् - पूज्यश्रीआनन्दघनमहाराजेन श्रीपार्श्वनाथप्रभोः स्तवने प्रोक्तं - राम कहो रहेमान कहो,कोउ कान्ह कहो महादेवरी पारसनाथ कहो कोउ ब्रह्मा, सकल ब्रह्म स्वयमेवरी, इति ।) ९१
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy