SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ भानां सूर्यकिरणानाम् अन्तरायो विघ्नस्तत्सम्पादकम् । पुष्कर-गम् = आकाशे स्थितम् । 'व्योम पुष्करमम्बरम्' इति कोशात् ।। प्रत्युदाहरणम्४२. अनीरस्य तटाकस्य लूनपक्षस्य पक्षिणः । हीनार्थस्य च मर्त्यस्य वैसादृश्यं न विद्यते ॥ (सादृश्याभावाभावो न सादृश्यम् । घटाभावाभावो घट इतिवदादेस्तर्कस्याऽव नाऽवसरः । 'एतादृशानि वाक्यानि लोके प्रयुज्यन्त' इति चेत् कामं प्रयुज्यन्ताम् । अलङ्कारत्वं त्वेतेषां नास्तीत्येतावदस्माकमाकूतम् ।। कल्पितोपमायामपि अलङ्कारत्वं नास्ति । यथा४३. आम्राण्डोऽवटतीरे मुखतो नत ईषदुत्थितः पृष्ठे । तृषितश्चातक इव भाति पिबलातृप्ति वारि नादेयम् ॥ (नादेयम् - नदीसंभवम् । चातकः केवलं मेघाम्बु पिबतीति प्रसिद्धम् ।) ४४. साधूनामनिवार्यैव सूचकैः सह संगतिः । महाविटपिनां मैत्री किरणैस्तारणैरिव ॥ [तारणैः-तरणिः सूर्यस्तत्संबन्धिभिः सौरैः किरणैः । कविरत्र भावावेशवशमापन्नोऽबद्धं कवयति, यत् सौरकिरणैः सह सम्पर्कस्य पवित्रत्वेऽपि तं दुष्टैः सह सङ्गमेनोपमिनोति ] ४५. वधे श्रुते शक्रजितो मूधेऽञ्जसा दशानने पीतगरोपमे सति । तदक्षिपङ्क्तिः सहसा स्फुलिङ्गमुग व्यजायताऽङ्गारपरम्परोपमा ॥ [मृधे = युद्धे । पीतगरो जनो म्रियते । मृतस्य तस्य चक्षुर्त्यां स्फुलिङ्गनिःसारणं कथम् ?] ४६. कण्डारगर्वखण्डनकूतिपरिपाटीप्रचण्डपाण्डित्यम् । मुखपिण्डं ते मम हृदि माणवकोद्दण्ड ! मण्डितं गाढम् ॥ [कण्डारं = कमलम् । माणवकः = शिशुः । अत्र प्रवर्तमाना वर्णा वीररसस्याउनुकूला न पुनर्वात्सल्यस्य । मुखपिण्डमित्यत्र पिण्डशब्दोऽप्यस्थाने । वस्तुतस्त्वयं शब्दश्छन्दोनिर्वाहाय योजितः । २. उपमेयोपमालङ्कारलक्ष्याणि (द्वयोरपि प्रकूतत्वे) १. द्यौरिव नीला सरसी सरसीव द्यौर्विलसति नीलेयम् । ग्लौरिव विशदो हंसो हंस इव ग्लौश्चकास्ति विशदोऽयम् ॥ ३१
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy