SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ (प्रकृताप्रकृतयोः ।। २. घन इवैष गजो घनमेचको गज इवाऽपि घनो निबिडासितः । तडिदिवेयमहो दशनाती रदनकान्तिसमा चपलाऽसति ॥ (असति = शोभते । अस शोभायाम् ।) (एष इयमितिशब्दाभ्यां प्रकृतत्वं, वस्तुप्रतिवस्तुभावश्च ।) (बिम्बप्रतिबिम्बभावे) ३. तटाकान्तरगाम्भोजं शरावपुटरत्नवत् । शरावपुटरत्नं च तटाकान्तरगाब्जवत् ॥ (उपचरिते) ४. दुग्धाम्बुधौ विलीनेव सुधा रामायणे मम । ___मनोवृत्तिर्मनोवृत्तिरिव रामायणे सुधा ॥ (श्लेषे) ५. व्योमेव मध्यभुवनं मध्यभवनमिव मनोरमं व्योम । सोज्ज्वलपेरु विराजद्वसुधाभोगमहिमाढ्यमतिभव्यम् ॥ [पेरुः - समुद्रश्च सूर्यश्च । वसुधा भूमिः तस्या आभोगो विस्तार इति मध्यभुवनपक्षे । वसु जलं तद् धत्त इति वसुधः, मेघः, तस्याऽऽभोगो विस्तार इति व्योमपक्षे ] (व्यङ्ग्यधर्मयुक्तत्वे) ६. सुमनःपटलीव काञ्चनाभरणाली द्रुमसम्मिते करे । कनकाभरणावलीसमा कुसुमाल्यां करसोदरे द्रुमे ॥ (आर्थवाक्यभेदः) ७. अङ्गुलीषु परिष्कार: शाखासु स्तबकोऽनयोः । परस्परोपमासम्पद् भाति भावुकमोदकः ॥ (परस्परोपमा) ८. तव मुग्धशिशो ! शयद्वयं भूशमस्मिन् भुवने बृहत्यपि । अविलब्धतृतीयसोदरं लभते सोदरतां परस्परम् ॥ ९. गवि गोष्ठगते ग्लावि ग्रुगते हंसे सरोवरगते च । उपमेयता किमुपमानताऽपि न परस्परेण वर्तेते ? ॥ ३२
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy