________________
पञ्चसहस्रमुद्राः प्राघोषि । क्रान्तौ रतस्य सुगुप्तवेशस्य तस्याऽष्टसमाः सुखेन गताः । १९३१ तमे ख्रिष्टाब्दे सप्तविंशे दिनाङ्के तीर्थराजे प्रयागे आल्फ्रेडपार्कमध्ये तस्य स्थितिः केनाऽपि राष्ट्रद्रोहिणा नीचेन शासकसैनिकेभ्यः सूचिता । गौरविशालसेनाऽपतत् । गजान् विलोक्य व्याघ्र इव स शत्रुसंहारे समुद्यतो बभूव । कथमपि शत्रवस्तं हन्तुं नाऽशक्नुवन् । प्रदोषे स सुभटः कोटिशः शत्रणां कदनं विधायाऽन्ते च स्वगोलिकया 'आजादः' इत्यभिधया भुवि शाश्वतोऽभूत् ।
अस्य ग्रन्थस्य हिन्दीरूपान्तरं सुश्रीगीतादेव्या विहितमस्ति । ग्रन्थात् प्राक् प्रानिवेदनं प्रणेतुः, जीवनजाह्नवी, श्रीशिवजी-उपाध्यायस्य च शुभाशंसनं च विराजन्ते ।
राष्ट्रभक्ताग्रगण्येषु प्रमुखस्य क्रान्तिकारिप्रवरेषु च सत्तमस्य श्रीमतश्चन्द्रशेखरस्य समग्रमद्भुतं परमोदात्तं सततं सम्प्रेरकं महनीयतरं चरितमैतिहासिकतथ्यानुरूपं काव्येऽस्मिन् विलसतितराम् । भगवान् शङ्कर एव भारतस्य दासताया निवारणाय चन्द्रशेखररूपेण स्वांशेनाऽवतीर्ण इति ग्रन्थकारो मन्यते । (आ०, ५.३८)
चन्द्रशेखरस्य बाल्यजीवनस्य रम्यमङ्कनमत्र विराजते । (आ., पू. ५२-६५)
तस्य मनसि राष्ट्रस्य स्वाधीनतायै तीव्रतरा व्यथा बाल्यकालादेव विद्यते । स बालकान् समाहूय जगर्ज
'क्लैब्यं त्यजन्त्वाशु समे सखायो भवन्तु राष्ट्राय समुद्यताश्च ।
धिग् जीवनं नो जननी यदीया हस्ते गता सीदति वैरिणां वै ।' (आ., पू ११३)
यौवने देशस्य स्वतन्त्रतायै तस्य नितरामपूर्वा क्रान्तिरेव नाऽत्र रम्यतया प्रस्तूयते, अपि तु तस्य चरितस्य दिव्यता शुचिता देशभक्तिः मातृभक्तिश्चाऽपि हृदयहारिण्या भाषयोपस्थीयते । (द्र० - आ., उ. ८२-१०८)
भारतभूमेरेकं मनोहरं चित्रं द्रष्टव्यतरमस्ति ।
'नीलोत्पलश्यामलदेहकान्तिः क्लान्ति हरन्ती प्रसभं महिम्ना । सुरेन्द्रवन्द्या नितरामनिन्द्या, जयत्यसौ भारतभूमिरीड्या ।। हिमाद्रिविन्ध्याचलमुख्यशैलैः संशोभ्यमाना कृतवेदगाना । लसद्विमाना धृतभूरिमाना धर्मं दधाना जयतान्महीयम् ॥'
(आ०, उ० १०२-१०३) अस्य ग्रन्थस्य हिन्दीरूपान्तरं ग्रन्थस्य गूढं भावमाविष्करोति । इत्थमनेककाव्यगुणैः समलङ्कृतं खण्डकाव्यमिदं सर्वैः संस्कृतज्ञैर्भारतीयसंस्कृतिमुपासकैश्च समाराधनीयं सङ्ग्रहणीयं च विद्यते । जयतु संस्कृतं संस्कृतिश्च ।