________________
ग्रन्थपरिचयः
श्रीधनञ्जयविरचितं द्विसन्धानकाव्यम्
एच. वि. नागराजराव्
संस्कृतभाषाया एष विशेषो यदत्र नानाविधाः श्लेषरचना सम्भवति । अस्यां भाषायामेकस्यैव पदस्य नानाऽर्थाः सन्ति । अपि च सन्धिमहिम्नैकस्यैव पदपञ्जस्य द्विधा त्रिधा वाऽर्थबोधकत्वं विद्यते । एतादाश्रित्य कैश्चित् कविभिर्नानार्थकानि पद्यानि सचमत्काराणि स्वकाव्येषु योजितानि । केचन प्रतिभाशालिनः कवयः समग्रं काव्यमेव कथाद्वयबोधकं रचयित्वा कीर्तिशालिनो बभूवुः । तादृशेषु प्रथमगणनामर्हति धनञ्जयाख्यः कविः । तेन राघव-पाण्डवीयं नाम द्विसन्धानकाव्यं व्यरचि । यथा नामैव द्योतयति तथाऽस्मिन् काव्ये रामायण-महाभारतयोः कथे समानैः शब्दैनिरूपिते । अत्र अष्टादश सर्गाः सन्ति । पद्यानि प्रसिद्धेषु इन्द्रवज्रोपेन्द्रवज्रानुष्टुभादिषु छन्दस्सु निबद्धानि । अपि च काव्यमिदं धनञ्जयाङ्कम् । सर्वेषु सर्गेषु धनञ्जयशब्दोऽन्तिम पद्ये कविना योजित इति यावत् । तत्रापि क्वचिच्चमत्कारो योजितः कविना । यथा प्रथमे सर्गे
को वा कविः पुरमिमां परमार्थवृत्त्या
शक्नोति वर्णयितुमत्र विनिर्णयेन । नित्यं विधिः सततसंनिहितो विभूति
मन्यादृशं सृजति यत्र धनञ्जयाय ।। अत्र प्रथमतो रामायणपरेऽर्थे - यत्राऽनवरतनिकटवर्ती विधिश्चतुर्मुखो विभूति सम्पदम्, अन्यादृशं धनं जयाय रामाय सृजति, तामिमां पुरं विनिर्णयेन परमार्थेन वर्णयितुमत्र लोके कः शक्नोति इति । भारतपक्षे अन्यत्सम, धनञ्जयायेत्यस्य अर्जुनायेत्यर्थः । पुनश्च यत्र काव्ये विधिरन्यादृशं विभूति कवनप्रतिभां धनञ्जयाय कवये सृजति तां पुरं ब्रह्मपुरी को वा कविः परमार्थेन वर्णयितुं शक्नोति ? इत्यर्थः ।
पञ्चमे सर्गे यथात्वामभ्युपैतु पुनरभ्युदयाय दीप्ति
रौत्सुक्यमागतवतीव रवि दिनादौ । ध्वान्तं विसर्पति तवाऽनुदयान्नय त्वं
कालेऽभिवृद्धिमभिमानधनं जयं च ।।