SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ योऽपप्रथत् सन्नकुलोदितारिः श्रीलक्ष्मणाख्यां सहदेवचर्यः ।। (३.२९) इत्यत्र श्लेषः । रामायणपक्षे ततो रामोत्पत्त्यनन्तरं, सुमित्रा उदयहेतुभूतामझुन्नतिं पर्वतस्योन्नतत्वं प्राप्तं सूनुं सुत-मसूत । सन्ना हताः, कुले उदिता अरयो येन सः । देवचर्यया सह वर्तत इति सहदेवचर्यः । श्रीलक्ष्मणाख्यां लक्ष्मण-इति सञ्जां प्रकटयति स्म - इत्यर्थः । महाभारतपक्षे- ततः युधिष्ठिर-भीमार्जुनोत्पत्त्यनन्तरं सुमित्रोदयहेतुभूता उत्तमसुहृदां प्राप्तेः कारणीभूता, माद्री उन्नति प्राप्तं सूनुम् असूत । यः सहदेवचर्यः सहदेवेन साकं चर्या यस्य सः, नकुलो दितारि शितशत्रुः सन् श्रीलक्ष्मणा लक्ष्मीलक्षणेन, आख्यां शोभाम्, अपप्रथत्-प्राकटयत् इत्यर्थः । इत्थं बहुधा श्लेषनैपुण्यं प्रकटयति धनञ्जयः । क्वचिद् व्याख्यया विनाऽर्थो दुरधिगमो भवति । व्याख्याकारो यदा पदच्छेदं दर्शयति तदा सर्वं सुगमं भवति । उदाहरणम्श्रिया विलोलो भरतो न जातः सुतो विनीतः सकलो बभूव । भज्येत राज्यं ह्यविनीतपुत्रं घुणाहतं काष्ठमिव क्षणेन ॥ अत्र रामायण सम्बन्ध्यर्थः सुगमः । अस्यैव श्रियाविलो लोभरतो न जातः इति पाठे पठिते भारतानुगुणोऽर्थः स्फुरति । एतादृशस्य कथाद्वयाभिधायिनः काव्यस्य रचना एव कष्टा, तत्राऽपि महाकाव्य-सम्प्रदायानुसारेण धनञ्जयः चित्रबन्धान् अपि अष्टादशे सर्गे योजितवान् इति नूनं श्लाघास्पदम् । तत्रत्यं पद्यमेकमुदाहरामः । दददेऽदोऽदरिद्रोऽरिरदिरौद्रोऽरुरादरी। दूरादरं दरं दद्रुराः दद्रुर्दरीदरी ।। व्याख्या - अदरिद्रः पुण्यवान्, अद्रिरौद्रः पर्वतवद् भयानकः, आदरी आदरवान्, दरी भयानकोऽअरिः, अदः एतत्, अरुः व्रणं, दददे दत्तवान् । आर्द्राः स्निग्धचित्ताः, अरं शीघ्रं दरं भयं, दर्दुर्गताः । दूराद् दरी: कन्दरान्, दद्रुः गतवन्तः । इति । एतादृशी रचना देवभाषायामेव सम्भवति । अथवा देववाणीशब्दानुपयुञ्जानासु भारतवर्षभाषासु इति भावयामः । धन्या गैर्वाणी वाणी । धन्यस्तस्या उपासको धनञ्जयः । 90, 9th Cross Naviluraste Kuvempunagar, Mysore-570023
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy