________________
अद्याऽपि नीतिमत्ता न विनष्टा मुनिधर्मकीर्तिविजयः
साम्प्रतं बहुशः श्रूयतेऽस्माभिर्यत् " प्रामाणिकता सत्यनिष्ठौदार्यं मानवता चाऽस्तङ्गतानि सन्ति । सर्वत्र शाठ्यं क्रूरताऽनीतिश्चैव प्रवर्तन्ते । श्रेष्ठी वा धनिको वा निर्धनो वा सत्ताधीशो वा सर्वेऽपि जना निरन्तरं मायाप्रपञ्चादिकं कर्तुमेवोद्यताः सन्तीति" । किन्त्वेषा वार्ता न पूर्णसत्यमाबिभर्ति । यतोऽद्याऽपि मानवतायाः सात्त्विकताया नीतिमत्तायाश्चाऽनुभवा भवन्त्येव ।
नीतिमत्तादिगुणान् यः कोऽपि प्राप्तुं शक्तोऽस्ति । न च कस्यचिदपि धनिकस्य शिक्षितस्य शिष्टजनस्य च स्वाधीनास्ते गुणाः सन्ति । अद्य यो धनिकः श्रेष्ठी सत्ताधीशश्चाऽस्ति स नीतिमान् सदाचारी सद्गुणी शिष्टश्च स्यात्-इति मन्यन्ते, किन्तु नैतदुचितम् । यतो धनं पुण्येन प्राप्यते किन्तु गुणास्तु पुरुषार्थेनैव प्राप्यन्ते । पुण्यप्रभावेन गृहे धनराशिर्विद्येत किन्तु चित्ते यदि दुर्गुणादिकं स्यात् तर्हि किं धनेन ? ग्रामीणेषु निर्धनेष्वशिक्षितेष्वशिष्टेषु च जनेषु ये नीतिमत्तादिगुणा दृश्यन्ते ते तु शिक्षितेषु शिष्टेषु च जनेष्वपि न दृश्यन्ते । गृहे धनं न स्यात्, देहस्य कृते आवश्यकं वस्त्रमपि न स्यात्, बाह्यदृष्ट्या यो दरिद्रो दृश्यते, न चोच्चशिक्षणमपि प्राप्तं येन तस्याऽशिष्टजनस्य निर्धनजनस्य च जीवने प्रतिपदं नीति-मानवतादिगुणानां दर्शनं भवति, हृदये निष्कपटता निष्पापता च वर्तते । एतादृशान् जनान् निरीक्ष्य चित्ते प्रसन्नताऽऽनन्दानुभूतिश्च भवति । मया यदनुभूतं पठितं च तल्लिखामि ।
( १ )
वर्षत्रयपूर्वं वयं सर्वेऽपि कर्णावतीनगरे स्थिता आस्म । नगरमध्ये विविधानि प्राचीनानि मनोरमजिनमन्दिराणि विराजन्ते । तेषां जिनचैत्यानां यात्रार्थमेकेन श्रावकेण सह वयं प्रतिदिनं गच्छन्त आस्म ।
एकदा प्रात:काले वयं रतनपोलमध्यत आगच्छन्त आस्म । तदैकेन भिक्षुकेण - " श्रेष्ठिन् ! चाय्पानं करणीयमस्ति ततो रूप्यकद्वयं ददातु " इति याचितम् । तेन श्रेष्ठिना झटिति पञ्च रूप्यकाणि दत्तानि । न स्वीकृतानि तेन भिक्षुकेण ।
६१