________________
कथा
दु:खमुक्तेकपाय:
मुनिरत्नकीर्तिविजयः
जनः कश्चिदत्यन्तं दुःख्यासीत् । उद्विग्नः स दुःखाद् मुक्त्यर्थं कञ्चिद् महात्मानमाश्रितवान् । सर्वं च स्ववृत्तं स निवेदितवांस्तस्मै । तस्य दुःखनिवेदनं श्रुत्वा महात्मा तमुक्तवान् - भो ! मुष्टिमितं लवणमिदं गृहीत्वा चषकमिते जले निक्षिपतु ।
-----
कृतं खलु ? अथ जलमेतत् पिबतु ।
------
पीतं किल? कीदृशः स्वाद आसीज्जलस्य ? अतिलवणितं जलमासीत् – मुखं विकृत्य थूथूत्कारपूर्वकं स प्रत्युत्तरितवान् ।
मन्दं मन्दं हसन् महात्मा पुनस्तं मुष्टिमितं लवणं ग्रहीतुमादिष्टवान् । आसन्नवर्तिनश्च सरोवरस्य तीरं गत्वा - 'लवणमेतदस्मिन् सरोवरे निक्षिप्य तज्जलमप्यास्वादयतु' इति निर्दिष्टवान् स महात्मा । सोऽपि तस्याऽऽदेशमनुसृतवान् ।
- हम्.... किंस्वादमिदं जलमासीत् ? - पृष्टवान् महात्मा । - मधुरमिदम् । - एवम् ? लवणितं नाऽनुभूतम् ? - न हि। अथ महात्मा स एतस्याः क्रियाया रहस्योद्घाटनमिव तमुपदिष्टवान्
- वत्स ! जीवने समापतन्त्यः सर्वा अपि विपदो मुष्टिमितलवणप्रमाणा एव भवन्ति । नाऽधिका नाऽपि च न्यूनाः । केवलं कीदृशे पात्रे ता गृह्यन्ते इत्यत्र सर्वमवलम्बते । सम्यग्बोधस्य पात्रं यद्यस्माकं विशालं स्यात् तहि समापतिता विपदोऽपि सरोवरे निक्षिप्तं लवणमिव क्षीणप्रभावाः स्युः । यतो बोधविस्तार एव निस्तारो दुःखेभ्यः । दृष्टिकोणं परिवर्तयतु सुखी च भवतु ।
९७