________________
कुचकन्दुकखेलाभिर्याभिस्तन्वि ! जितं जगत् । हन्त तावपि सञ्जातौ शाल्मलीतूलसन्निभौ ॥५॥ प्रार्थनाशतदुत्कर्ता निग्रहानुग्रहक्षमः । क्वाऽसि रूपाभिमानस्ते साम्प्रतं भो तिलोत्तमे ! ॥६॥ दिवसाश्च निशाश्चाऽपि व्यतियान्ति सदा समम् । लक्षकोटिधनेशानां द्रुमाधश्शायिनामपि ॥७॥ यत्नतोऽर्गलितं द्वारं शतद्वाःस्थसुरक्षितम् । समुद्घाटयति स्वैरं विपत्तिर्यमप्रेषिता ॥८॥ सोढं सोढं विपच्चक्रं वीतचिन्तोऽस्मि साम्प्रतम् । द्रक्ष्यामि ननु पर्यायं तटस्थीभूय दुर्हृदाम् ॥९॥ शीतमेव जलं नोष्णं वह्निरुष्णो न शीतलः । निसर्गेऽपि पदार्थानां धातुरेवाऽधिकारिता ॥ १० ॥ यथा त्यक्तं दुर्वचनं जायते हि निरर्थकम् । दुःखञ्चाऽप्यननुभूतं तथा वैयर्थ्यमाप्नुते ॥११॥ व्युप्तः कन्दलितः प्रोत्थस्तावके एव मानसे । का मे हानिर्जयेन्मित्र ! भवत्पापवटद्रुमः ॥१२॥ संघर्षो न वरेण्योऽस्ति नृणामथ वनौकसाम् । कीचकाः पश्य दह्यन्ते ग्रीष्मे संघर्षजाग्निभिः ॥१३॥ न वै कम्रधियं क्रोधो बाधते जातु मानवम् । जलदानां गृहे नाऽग्निर्धुक्षितोऽपि प्रवर्तते ॥१४॥ गर्दभाद् गर्दभो जात अश्वादश्वो हि जायते । सैरिभं हस्तिनी सूता श्रुतं केनेति भूतले ? ॥१५॥ आकाङ्क्षव विपन्मूलं समुच्छिन्नं नु तन्मया । मूले छिन्ने क्च तच्छारवा तत्प्रसूनञ्च तत्फलम् ॥ १६ ॥ सुखदं पुत्रजन्मेति माऽस्मिन् बन्धो ! रतिं कृथाः । कियत्सुखं ददौ कंसः पित्रे वेनोऽथ रावणः ? ॥१७॥ सद्बीजमूषरे चाऽपि स्फुटित्वा जायते द्रुमः 1 धेनुकुक्षावपि न्युप्तं बीजं गोकर्णतां गतम् ॥१८॥ तटं संक्षिप्य विस्तार्य छित्त्वा भित्त्वा पुरस्सरा । नदीव मनुजं पश्चात् कुर्वती वर्धते दशा ॥१९॥
१५