SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ दग्धः विदग्धः दग्धः विदग्धः किमर्थं भवान् आरक्षकदले नियुक्तो जातः ? मम चिकित्सको मेऽधिकं व्यायाम कर्तुमादिशद, अतः । व्यायामस्याऽऽरक्षकत्वेन स को वा सम्बन्धः? एवमेव व्यायामकरणस्थाने आरक्षकदले नियक्तितो मे व्यायामेन सह वेतनमपि लभ्यते !! (रात्रौ त्रिवादने-) (दरवाण्यां) चिकित्सकमहोदय ! मम पत्न्या आन्त्रपुच्छशोथस्य तीव्रा वेदना जायते । कृपया झटिति गृहमागच्छतु ।। चिकित्सकः चिन्तितो मा भवत् । तस्या वेदनाऽऽन्त्रपुच्छशोथस्य नैव स्यात्, यतो गतवर्षे एव मया तस्याः शस्त्रक्रिया कृताऽस्ति । मनोजः किन्त्वेषा मम नूतना पत्नी !! एवममा महाविद्यालयीय एको विद्यार्थी वर्षान्तपरीक्षायां सर्वेष्वपि विषयेष्वनुत्तीर्णो जातः । पित्रे साक्षादेतज्ज्ञापयितुं बिभ्यन् स स्वज्येष्ठभ्रातरं ज्ञापितवान् पत्रद्वारा, लिखितवांश्च यत् - 'पितरमेतदर्थं सज्जीकरोतु कृपया, ततो अहं गृहमागच्छामि' । प्रत्युत्तररूपेण ज्येष्ठभ्राता लिखितवान्- 'पिता तु सज्जोऽस्ति, भवान् सज्जीभवतु'। पत्रकारः भवतः साफल्यस्य किं रहस्यम् ? उद्योगपतिः प्रामाणिकता, यतस्तत्र स्पर्धेव नास्ति । इदानीं भवता मे येऽवमाननकृतः शब्दाः कथितास्तदर्थं पञ्चक्षणाभ्यन्तर एव क्षमा याचनीया भवता ।। यदि पञ्चक्षणाभ्यन्तरे क्षमां न याचेय तर्हि ? तर्हि तदर्थं कति क्षणा अपेक्ष्यन्ते भवता ?! + ११०
SR No.521025
Book TitleNandanvan Kalpataru 2010 10 SrNo 25
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2010
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy