Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
२८८ दर्पणपरीक्षासहिते भूषणसारेमसम्भवदुक्तिकमिति । एतेन शक्तिप्रयोज्यैवोपस्थितिहेतुरिति न लक्षणाज्ञाने कार्यकारणभावान्तरं ममापीति परास्तम् । प्रयोज्यत्वस्यानतिप्रसक्तस्य दुर्वचत्वाच्चेत्यादि विस्तरेण प्रपञ्चितं भूषणे ॥३७॥
दर्पणः भावः। *असम्भवदुक्तिकमिति । लक्षणाज्ञानस्य शक्तिविषयकत्वेऽपि तीरविषयकशक्तिग्रहात्मकत्वस्याभावादितिभावः। __ *एतेनेति । द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन वक्ष्यमाणदूषणेन वेत्यर्थः । *शक्तिप्रयोज्येति । लक्षणाज्ञानस्य शक्तिज्ञानाऽधीनत्वेन तज्जन्योपस्थितौ शक्तिप्रयोज्यत्वसत्वान्न लक्षणावादिमते हेत्वन्तरकल्पनेत्यर्थः । *अनतिप्रसक्तस्येति । जन्यजन्यत्वस्य लक्षणाज्ञानजन्योपस्थिताविव विशेषणतावच्छेदकप्रकारकनिर्णयविधया शक्तिज्ञानजन्यशक्यवानित्याकारकविशिष्टवैशिष्टयावगाह्यनुव्यवसायात्मकोपस्थितावपि सत्त्वात्तद्विषयस्याऽपि शाब्दबोधापत्तिः। साक्षाज्जन्यत्वस्य तत्स्वरूपत्वे लक्षणाज्ञानजन्योपस्थित्यसङ्ग्रहः । उभयसाधारणस्य तस्य निर्वक्तुमशक्यत्वात् । स्वरूपसम्बन्धस्य तस्योभयसाधारण्यं तु सुतरां सम्भावितमिति भावः। अन्यथा सिद्धिनिरूपकतानवच्छेदकशक्तिज्ञानोत्तरवर्तितावच्छेदकधर्मवत्त्वरूपं शक्तिप्रयोज्यत्वमुभयसाधारणं सुवचमित्यन्ये । अधिकमग्रे वक्ष्यते ।
परीक्षा हस्तिपकोपस्थितेर्वृत्तिज्ञानजन्यत्वेऽपि उक्तधर्मानाक्रान्तत्वात्तत्तच्छाब्दबोधापत्तिः । *एतेन*-द्विविधवृत्तिज्ञानस्यैकरूपेण हेतुत्वासम्भवेन । *शक्तिप्रयोज्येति * । लक्षणाज्ञानस्य शक्तिग्रहपूर्वकत्वेन तत्प्रयोज्यत्वमव्याहतमिति भावः। *अनतिप्रसक्तस्येति । लक्षणाज्ञानजन्यपदार्थोपस्थितिमात्रनिष्टस्य । प्रयोज्यत्वस्य जन्यजन्यत्वरूपतया तस्य यथा लक्षणाज्ञानजन्योपस्थितिसाधारण्य तथा विषयतावच्छेदकप्र. कारकज्ञानविधया घटो घटपदशक्य इति ज्ञानानन्तरं जायमाने घटपदशक्यवद्भूतलमिति ज्ञानेऽपि सत्त्वादतिप्रसङ्गादिति भावः। एवं च तत्तद्धर्मावच्छिन्नविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति तत्तद्धर्मावच्छिन्नविषयकबोधजनकत्वप्रकारकज्ञानत्वेन कारणतेत्येतादृशकार्यकारणभावेनैव सामञ्जस्येन लक्षणाया वृत्त्यन्तरत्वमित्याकारको निगूढाभिप्रायः। __वस्तुतस्तु-तत्तद्वोधजनकत्वं तत्तच्छक्तत्वमिति न युक्तम् । एतद्रपशक्ते. आननिष्ठशाब्दबुद्धिकारणतानवच्छेदकत्वात् । स्वस्यावच्छेकत्वे आत्माश्रयात् । किञ्च प्रथम शक्तिग्रहो बालस्य प्रयोज्यप्रयोजकवृद्धव्यवहाराद्भवति । तथाहि-प्रयोजकवृद्धेन प्रयोज्यवृद्धं प्रति घटमानयेत्युक्तं तत्वतस्तस्य तस्माद्वाक्याच्छाब्दबोधे जाते घटमानयति । तत्पार्श्वस्थो बाल इदं घटानयनरूपं कार्य प्रयोज्यनिष्ठशाब्दबुद्धिप्रयोज्यमित्यनुमिनोति । ततोऽयं घटकर्मकानयनमिति बोधः, एतच्छाब्दप्रयोज्य इत्यवधार्य सम्बद्धघटादिशब्दस्य तत्तदर्थविषयकशाब्दबोधजनकत्वमनुपपन्नमित्यन्यथानुपपत्या तेष्वर्थेषु घटादिशब्दानां सम्बन्धं कल्पयतीति तान्त्रिकसरणिः। तत्र बोधजनकत्वानुपपत्या कल्प्यमानसम्बन्धस्य तत्तदर्थबोधजनकत्वरूपत्वेऽनवस्थापत्तिः, शक्तिनिश्चयानुपपत्या कालान्तरे घटोऽस्तीति वाक्याच्छाब्दबोधानुपपतिश्चेति
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502