Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 417
________________ ३८८ दर्पणपरीक्षासहिते भूषणसारे दर्पणः करणं तु मूल एव सुव्यक्तम् । अष्टानां स्फोटानामाकरसिद्धतया तव्यावृत्त्यालाभ परीक्षा त्यर्थः। नैयायिका ह्येवमाहुः-शक्तम्पदम् , पदसमुदायो वाक्यमिति । एवञ्च प्रकृतिप्र. त्यययोः स्वस्यार्थाभिधानसमर्थयोः समभिव्याहारात्प्रकृत्यर्थविषयतानिरूपितप्रत्यया. र्थविषयताशालिबोधो जन्यते । तत्र प्रकृतिप्रत्यययोराकाङ्क्षाऽपि सहकारिणी। अन्यथा घटकर्मत्वमानयनं कृतिरिति शब्दसमुदायाधेयतासम्बन्धावच्छिन्नघटनिष्ठप्रकारतानिरूपितकर्मत्वनिष्ठविशेष्यताको निरूपकत्वसम्बन्धावच्छिन्नकर्मप्रकारतानिरूपितानयन. निष्ठविशेष्यताकोऽनुकूलत्वसम्बन्धावच्छिन्नानयननिष्ठप्रकारतानिरूपितकृतिनिष्ठविशेष्यताकशाब्दबोधस्स्यात्। यत्पदे यत्पदसमभिव्याहारप्रयुक्तं यत्संसर्गकयत्प्रकारकयद्विशेष्यकबोधजनकत्वम् , तयोः पदयोः समभिव्याहारे ह्याकाङ्क्षा। अस्ति च सा 'घटमानयति इत्यत्र । घटकर्मत्वमित्यादिप्रयोगे तु सा नास्तीत्यतो नघटीया कर्मतेति तद्रीत्या बोधः । एवं धात्वाख्यातयोरपि बोध्यम् । सैवाकाङ्क्षा व्याकरणेन प्रतिपाद्यते। सा चाकाङ्क्षा ज्ञाता सती शाब्दबोधहेतुर्नतु स्वरूपसती। यत्र घटकर्मत्वमिति केनचित्प्रयुक्तम्, तत्र घटपदोत्सरवर्तिकर्मत्वशब्दे अम्पदत्वस्य भ्रमो यदा, तदा तस्माद्धटीया कर्मतेत्यन्वयबोधो जायते, तस्यानुत्पत्तिप्रसङ्गात् । न चाकाङ्क्षाज्ञानाद् घटमिति शब्दादू घटीयाकर्मतेति बोधे जातेऽपि तस्य कारणीभूतज्ञानस्य सत्वात्पुनस्तथान्वयबोधः स्यादिति वाच्यम् । तात्पर्य्यविषयान्वयबोधानुपहितत्वस्य स्वरूपतः शब्दनिष्ठस्य नियामकत्वात् । एकस्य बोधस्य तात्पर्य्यविषयत्वे तच्छाब्दबोधानुपहितत्वस्य तत्र सत्वाद्भवति बोधः। द्वितीयस्तु न भवति, एकज्ञाने जाते तदुपहितत्वविशिष्टस्य तस्य शब्दस्य सत्वात्। यत्र शाब्दबोधद्वयं जायतामितीच्छा तत्र बोधद्वयस्य तात्पर्यविषयतया बोधद्वयानुपहितत्वस्य प्रथमशाब्दबोधे जातेऽपि तत्वाद्भवत्येव द्वितीयो बोधः। एतन्मूलक एव 'सकृदुच्चरितः शब्दस्सकृदर्थ गमयति इति साम्प्रदायिकानामुद्घोषः । न चावान्तरवाक्यार्थज्ञाने जनिते तेन महावाक्यार्थबोधो न स्यात्, तस्मिन्प्रकृतान्वयबोधानुपहितत्वाभावादिति वाच्यम् । तात्पर्यविषयान्वयबोधे स्व. विषयत्वान्यूनानतिरिक्तवृत्तिविषयकत्वस्य विशेषणीयत्वात्। एवञ्च महावाक्यार्थबोध. विषयत्वान्यूनानतिरिक्तविषयताकबोधानुपहितत्वस्यावान्तरबोधे जातेऽपि सत्वाद्भवत्येव महावाक्यार्थबोधः । एवञ्च-साकाङ्कत्वाच्छब्दसमुदायादेव शाब्दबोधस्योपपत्तिसम्भवान्न वाक्यस्य पदसमूहस्य पृथक् वाक्यार्थे शक्तिरिति । पदार्थतासंसर्गस्त्वनुपस्थित एव । आकाङ्क्षा तात्पर्य्यवशाद्भासते, नतु शक्तिस्तस्मिन्नर्थे कल्पनीयेति।। मीमांसकादयस्तु-संसर्गो वाक्यस्य लक्ष्योऽर्थ इत्येवमाहुरिति, तदप्यसङ्गत्तमिति ध्वननाय सिद्धान्तपदोपादानम् , किञ्च-व्याकरणप्रक्रियया प्रकृतिप्रत्यययोस्तत्तदर्थबोधकत्वेन क्लप्तयोः सत्वाच्छाब्दबोधोपपत्तौः न पदेष्वित्यादेः सुबन्तस्य प्रकृतिप्रत्ययसमुदायस्य बोधकत्वमिति यन्मतन्तदप्ययुक्तम्। शब्दानामाशु विनाशितया समुदायेतादृशस्याभावादतः स्फोटस्य वाचकत्वमभ्युपेयम् । ते च स्फोटा नानाविधा यद्यपि सम्भवन्ति, तथापि निष्क सति वाक्यस्फोट एव स्वीकर्तुमुचित इत्याशयेन सिद्धान्तेन पूर्वोक्तरीत्या स्फोटस्य वाचकत्वव्यवस्था । तेन परमतस्य निराकरणम्भवति ।

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502