Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४१२
दर्पणपरीक्षासहिते भूषणसारेर्णकल्पने मानाभावात् । तत्तद्वोत्पादकत्वेनाभिमतवायुसंयोगनिष्ठं तत्तद्वर्णजनकताया व्यञ्जकताया वाऽवच्छेदकं वैजात्यमादायैव ककारो गकार इत्यादिप्रतीतिवैलक्षण्यसम्भवात् । स्पष्टं हि भामत्याम्-"तारत्वादि वायुनिष्ठं वर्णेष्वारोप्यते” इत्युक्तं देवताधिकरणे ।
नचैवं वायुसंयोग एव वाचकोऽपि किं न स्यादिति वाच्यम् । प्रत्यक्षोपलभ्यमानककारादेरेव वाचकत्वस्यानुभवसिद्धत्वात् ।
दर्पणः यत्वे सुखादीनामपि नित्यतापत्तिरत आह-*तत्तद्वर्णोत्पादकत्वेनेति ॥ वैजात्ये प्रमाण दर्शयति-*वर्णजनकताया इत्यादि । तथा च तादृशवैजात्यं समवायेन स्फोटांऽशे आदायारोप्योक्तप्रतीतिवैलक्षण्योपपत्तौ न तदनुपपत्तिरतिरिक्तककारादिवर्णसाधिका । नाप्युत्पन्नः क इत्यादिप्रतीतिस्तथा। 'सोऽयं क' इत्यभेदतत्प्रत्यभिज्ञारूपबाधकसत्त्वेन तादृशप्रतीतेभ्रंमत्वात् । नाऽपि सुखादीनां नित्यतापत्तिः । तन्नाशकस्य स्वोत्तरवर्तियोग्यात्मकविशेषगुणस्य जागरूकत्वादिति भावः ॥ *भामत्याम् । तन्नामकवाचस्पतिग्रन्थे ।। *आरोप्यत इतीति ॥ एतदनुरोधेनैवादायेति पदमारोपपरतया व्याख्यातम् ॥ मतान्तरन्तु वक्ष्यते ॥ __ वायुसंयोगोऽपीत्यपिरेवाऽर्थे । कण्ठताल्वाद्यभिघातजवायुसंयोग एवेत्यर्थः । समवायस्यानारोपितस्य वाचकतावच्छेदकत्वे लाघवात् । तथाहि संयोगस्यैव काद्यात्मकत्वमस्त्वित्यर्थः॥ समाधत्ते-*प्रत्यक्षेति ॥ अयमाशयः-कादिवर्णानामुक्तसं
परीक्षा ककारो गकार इति विलक्षणप्रतीतिसत्वात्कथमसत्वमत आह-*तद्वर्णवत्वमिति । *अवच्छेदकमिति । एतेन वैजात्ये प्रमाणन्दर्शितम् । एवम्प्रकारेण सिद्धं यद्वैजात्यं तस्य समवायसम्बन्धेन स्फोटे आरोपात्ककारादिविषयकविलक्षणप्रतीतिनिर्वाहः । न चोत्पन्नः क इत्यादिप्रतीतिवशादनित्यत्वम् । सोऽयं ककार इत्यभेदावगाहिप्रत्यभिज्ञया विरोधेन तस्याः प्रतीतेर्धमत्वात् । अभिव्यञ्जकगतोत्पत्तिविनाशाद्यारोपेण तस्या उप. पत्तेश्च । एवञ्च व्यञ्जकधर्माःस्फोटे आरोप्यन्ते। व्यञ्जकनिष्ठं वैजात्यमेव परम्परासम्बन्धेन कत्वादिकमिति सिद्धम् । *भामत्यामिति भामतीनामके वाचस्पस्तिनिर्मिते ग्रन्थे। ___ श्वायुसंयोग एवेति । कण्ठताल्वाद्यभिघातजनकवायुसंयोग इत्यर्थः। अनारोपितधर्मस्य वाचकतावच्छेदकत्वकल्पनापेक्षया आरोपितस्य वाचकतावच्छेदकत्वगौरव. मितिभावः । वाचकविषयकं श्रावणप्रत्यक्षमनुभवसिद्धम् । यदि वायुसंयोग एव वाचकः स्यात्तदातस्यातीन्द्रियतया प्रत्यक्षन्नस्यात्। स्फोटस्तु पदं वाक्यं वा शणोमीत्यनुभवात्प्रत्यक्षमेव । भवन्मते कथं कत्वादिप्रत्यक्षन्तस्याभिव्यञ्जकधर्मत्वस्य भवतीत्युक्तत्वादिति वाच्यम् । सुरभिचन्दनमिति प्रत्यक्षे चक्षुरयोग्यस्यापि सौरभस्य भानवच्छ्रवणायोग्यस्याव्यभिव्यञ्जकधर्मस्य श्रावणप्रत्यक्षे आरोपात्मके भानसम्भवात्तस्याः प्रतीतेः। समवायसम्बन्धावच्छिन्नकत्वादिप्रकारकत्वे भ्रमत्वम् । यदि स्वाश्रयाभिव्यङ्ग्यत्व. रूपपरम्परासम्बन्धस्य 'लोहितः स्फटिकः' इति प्रतीतेर्जपाकुसुमसन्निधाने जायमानाया अनुभवसिद्धत्वेन प्रकारतावच्छेदकत्वमस्तीत्याशयेन दूषयति-*प्रत्यक्षमित्यादिना*।
Loading... Page Navigation 1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502