Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 458
________________ व्यक्तिस्फोटनिर्णयः। ४२९ न च वर्णस्थले ध्वनिसत्वे मानाभावः। तदुत्पादकशङ्खाद्यभावेन तदसम्भवश्चेति वाच्यम्। ककाराधुच्चारणस्थले तत्तत्स्थानस्य जिह्वाया ईषदन्तरपाते वर्णानुत्पत्तन्युत्पत्तेश्च दर्शनाजिह्वाभिघातजवायुकण्ठसंयोगादेव॑निजनकत्वकल्पनात् । तस्य च वर्णोत्पत्तिस्थलेऽपि सत्त्वात्तवैव प्रतिबध्यप्रतिबन्धकभावकल्पना निष्प्रमाणिका स्यादिति विपरीतगौरवम् । एवं परस्परविरोधादुदात्तत्वानुदात्तत्वहस्वत्वदीर्घत्वादिकमपि न वर्णनिष्ठं युक्तमितितेषामभिप्रायः। एवञ्चोत्पत्यादिप्रतीतीनां तत्प्रमात्वस्य च निर्वाहः परेषामपि समान इति प्रतिबन्धैवोत्तरमिति भावः ॥ ७० ॥ दर्पणः निराचष्टे-*नचेति । वर्णपार्थक्येन ध्वनेरनुभवादिति भावः । हेत्वसमवधानादपि तत्सत्त्वं नघटत इत्याह-*तदुत्पादकेति । शङ्खौष्ठाभिघातजवायुसंयोगादेरित्यर्थः ॥ *वर्णानुत्पत्तेरिति । वर्णानभिव्यक्तरित्यर्थः। *दर्शनादिति । दृशिनिसामान्यार्थः । *सत्वादिति । तथाच पार्थक्येनानुभूयमानायाः प्रतीतेजिह्वाभिघातजकण्ठवायुसंयोगादेहेंतोश्च सत्वान्न वर्णाभिव्यक्तिस्थले धननिनैयत्यमित्युक्तसम्बन्धविषयकप्रतीतिनिराबाधेति भावः । *तवैवेति । वर्णस्थले ध्वन्यसत्त्ववादिन एवेत्यर्थः । *विपरीतगौरवमिति* । स्वकारणबलाज्जायमाने ध्वनौ वर्णोत्पादकसामग्याः प्रतिबन्धकत्वकल्पना ध्वन्यकल्पनाप्रयुक्तलाघवापेक्षया विपरीतगौरवग्रस्तेति यावत् । तेषामिति* । वर्णनित्यतावादिनां मीमांसकानामित्यर्थः । *एवञ्चेति । उत्पत्त्यादीनां वर्णाऽवृत्तित्व इत्यर्थः । *प्रतिबन्धैवेति । पराऽभिमतसमाधेयमुत्तरं प्रतिबन्दि.. स्तयेत्यर्थः । तथा च तत्र मीमांसकैरुत्पत्यादिप्रतीतेः प्रमात्वे यः समाधिराश्रितःस एवास्माभिरप्यनुसतव्य इति भावः । तथा चाऽखण्डवाक्यस्फोटस्वीकारे न किञ्चिदू बाधकमिति फलितम् । नन्वेतत्कल्पे पदानामसत्त्वेन मीमांसकसिद्धान्तविरोधः । तथाहि-'नीहिभिर्यजेत' इत्यत्र यागेन द्रव्यमात्राक्षेपे वीहिश्रुतिर्नियमार्था व्रीहिभिरेव नान्यैरिति । तत्र बीद्यभावे नित्यकर्मणः प्रारब्धकाम्यकर्मणश्च लोपो मा भूदिति प्रतिनिधिरुपादीयते । व्रीहित्वस्य शक्त्युपलक्षणत्वेन प्रतिनिधेरपि श्रौतत्वात् । भवन्मते तत्र प्रतिनिध्युपा. परीक्षा ति। वर्णपार्थक्येन ध्वनेरननुभवान्नध्वनिसत्वमित्याशङ्कान्निराचष्टे-नचेति । वर्णानुत्पत्तेः-वर्णानभिव्यक्तेः । जिह्वाभिघातजेति* । संयोगजसंयोगाभिप्रायेणेयमुक्तिः । *वर्णोत्पत्तिस्थले । वर्णाभिव्यक्तिस्थले। *तत्रैव । ध्वन्युत्पत्तौ। *प्रतिबध्यप्रतिबन्धकभावेति । अवच्छेदकतासम्बन्धेन ध्वनिम्प्रति समवायेन कर्णवायुसंयोगः प्रतिबन्धक इत्येवं रूप इत्यर्थः। . *एवम् - उत्पत्तिविनाशयोरिव । *परेषाम्-वर्णनित्यतावादिनाम्मीमांसका. नाम् । *समान इति । एवञ्चाखण्डस्फोटस्वीकारे बाधकाभावः। नन्वेवं सति समा.

Loading...

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502