Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 497
________________ ४६८ तिङर्थवादसार। भ्यप्रमाणत्वादित्याह भगवान् पाणिनिः । प्रधान प्रत्ययार्थ इति वचनं न कार्यम् । अर्थस्य अर्थावबोधस्य अन्यप्रमाणत्वात् । व्युत्पत्त्यनुसारित्वादिति हि तदर्थः ॥ एतेन व्यापारस्य प्राधान्यानुरोधेन फलमानं धात्वर्थः, व्यापार आख्यातार्थ इति मीमांसकोक्तमपि प्रत्युक्तम् । फलमात्रस्य धात्वर्थत्वे ग्रामस्य संयोगाश्रयत्वेन ग्रामो गमनवानित्यादिप्रयोगापसेश्च । नच भावार्थकल्युटा फलानुकूलव्यापारप्रतीतेन ग्रामो गमनवानित्यस्यापत्तिरिति वाच्यम् । भावविहितप्रत्ययानां धात्वर्थानुवादकत्वेन प्रयोगसाधुत्वमात्राथकत्वमिति स्वसिद्धान्तविरोधापत्तेः । नच पचतीत्यस्य पाकं करोतीति व्यापारसामान्यार्थककरोतिना विवरणदर्शनादाख्यातस्य व्यापारार्थकत्वमिति वाच्यम् । करोतिना धात्वर्थस्यैव विवरणात् । कथमन्यथाऽऽख्यातरहितस्य पकवानित्यस्य पार्क कृतवानिति विवरणं किं कृतमिति व्यापारविशेषविषयकप्रश्नस्य पक्वमित्युत्तरं च सङ्गच्छेत ॥ किं चतिकृदुभयसाधारण्येन भावनायाः प्रतीतेरुभयसाधारण्येन धातुरेव तद्वाचक इति यक्तम्॥किं च फलमात्रस्य वाच्यत्वे क्रियावाचिनांवित्रीयमाणा धातुसंज्ञैव न स्यात्। तथा च संज्ञानिबन्धनाः प्रत्ययास्तेभ्यो न स्युः । नच तत्र क्रियाशब्देन फलमेव गृह्यत इति तद्वाचकत्वादेव धातुसंज्ञा सेत्स्यतीति वाच्यम् । एवं सति धात्वर्थत्वं क्रियात्वं क्रियावाचकत्वे सति भ्वादिगणपठितत्वं च धातुत्वमिति क्रियात्वग्रहे धातुत्वग्रहस्य धातुत्वग्रहे क्रियात्वग्रहस्य चापेक्षणेनान्योन्याश्रयापत्तेः । मम तु "यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते" इति हर्युक्तः । साध्यत्वेन प्रतीयमानत्वं क्रियात्वम् , तद्वाचकत्वे सति गणपठितत्वं च धातुत्वमिति लक्षणाऽभ्युपगमेन नान्योन्याश्रयस्य सम्भावनेत्यपरमनुकूलमित्यलं पल्लवितेनेति शिवम् ॥ इत्यं यथामति विभाव्य तिर्थवाद-सारं विलिख्य विबुधाः समुपाहरामि । पश्यन्त्वमत्सरधिया सकलं भवन्तः खुद्दीबुधोऽहमिति साञ्जलिरर्थये च ॥१॥ इति झोपनामकश्रीखुद्दीशर्ममैथिलमनीषिकृततिर्थवादसारः ।

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502