Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४६६
तिङर्थवादसारः ।
"
अथ प्रथमान्तार्थस्य प्राधान्यादेव पुत्रमिच्छति पुत्रीयतीतिवदिष्यते पुत्र इत्यर्थे न क्यच् भिन्नार्थत्वात्" इति भाष्यं संगच्छते । तत्र हि भिन्नार्थत्वं कर्तृप्रत्यये व्यापाराश्रयस्य प्राधान्येन कर्मप्रत्यये फलाश्रयस्य प्राधान्येनैव सम्भवतीति चेद्र ? मैवम् । " सुप आत्मन" इति सूत्र इच्छायामित्यस्यानुवृत्तेरिच्छानुकूलव्यापारार्थ एव क्यचो विधानेन कर्मप्रत्यये व्यापारजन्येच्छाया एव बोधेन गुणप्रधानभावव्यत्यासकृतभिन्नार्थत्व एव भाष्यस्य तात्पर्येण तत्सङ्गतेः ॥
अथ तिर्थस्याप्राधान्ये "तदधीते तद्वेद,, इत्यनेन विहितेन वैयाकरण इत्यादावrsध्ये त्र्वा बोधो न स्यात् ; क्रियायाः प्राधान्येन तस्या एव तद्धितप्रत्ययवाच्यत्वादिति चेत्सत्यम्, तद्धितस्थले विशेष्यविशेषणभावव्यत्यासस्य "क्वचिद्गुणप्रधानत्वमर्थानामविवक्षितम्' इत्युपक्रम्य ।
"आख्यातं तद्धितकृतोर्यत्किञ्चिदुपदर्शकम् । गुणप्रधानभावादौ तत्र दृष्टो विपर्यय:,,
इति कारिया हरिणा स्पष्टमभिधानात् ॥ भाष्येऽपि - " तद्वहति" इति सूत्रे वह त्यर्थं रथादिभ्यः प्रत्ययविधिरनथंकः "तस्येदम्" इत्यधिकारस्थेन " रथाद्यत्" इत्यनेन विहितत्वादित्याशङ्कय वहति वोढेति शब्दभेदान्न तेन सिद्धिरित्युक्त्वा शब्दभेदेऽप्य
सामान्य सिद्धम् । य एवार्थो रथं वहति स एवार्थो रथस्य वोढेति दृढीकृत्य द्विरथ्य इत्यादौ यतो नुगभावार्थं तदिति सिद्धान्तितम् । य एवार्थ इत्यादेः रथ्य इत्यस्य विग्रहभूते रथं वहतीत्यत्र योऽर्थः यावानर्थो विषय क्रियतेः स एव तावानेव तद्विग्रहभूते रथस्य वोढेत्यत्र विषयीक्रियते इत्येतावन्मात्रतात्पर्येण गुणप्रधानभावव्यत्यासकृतोऽभेद नाश्रयणीय इति स्पष्टमेव प्रतीयते ॥
एतेन य इदानीमप्रयुक्ताः शब्दा नामी साधवः स्युरित्युपक्रम्य ऊषेत्यस्यार्थे क्व यूयमुषिता इति, तेरेत्यस्यार्थे क्व यूयं तीर्णा इति, चक्रेत्यस्यार्थे क्व यूयं कृतवन्त इति, पेचेत्यस्यार्थे क्व यूर्यं पक्ववन्त इति पस्पशाभाष्येण प्रथमान्तार्थप्राधान्यलाभेन क्रियायाः प्राधान्ये तद्विरोध इत्याक्षिपन्तः परास्ताः ।
गुणप्रधानभावव्यत्यासस्य सोढव्यत्वात् । ऊषेत्यादिप्रतिपाद्यस्यार्थस्य वाक्यान्तरणार्थतोऽपि लाभ इत्यत्रैव भाष्यस्य तात्पर्येण क्व यूयमुषिता इत्यादीनां विवरणत्वाभावाच्च । विवरणत्वे च ऊषेत्यादिना किं शब्दार्थस्य युष्मच्छब्दार्थस्य चास्पर्शेन तवाऽप्येतद्भाष्यासङ्गतिर्दुर्वारैव । तस्मादूषेत्यत्र लिटा प्रतीयमानं क्रियागतं यद्वक्तृपरोक्षत्वं तत्क्रियाप्रतिपाद्यत इति त्वयाऽपि वाच्यम् । तच्च परोक्षत्वे किमः शक्त्यभावादार्थिकमेव किमः प्रश्नविषयार्थकत्वेन प्रश्नस्य चानुभूतविषयकताया एव दर्शनेनार्थतः पर्यवसानात् । अत एव तत्र कैयटेन यद्यपि ऊषेति ऊषिता इत्यनेन सामानार्थी न भवति परोक्षत्वादेर्विशेषस्यानवगमात् तथापि तत्प्रत्यायकपदान्तरसहितः प्रयुज्यत इत्युक्तम् ॥ क्रियायाः प्राधान्यादेव नोपमानत्वं तस्याः सिद्धत्वेनाभावात् । कर्त्तुस्तु क्रियां प्रति विशेषणत्वात् । तदुक्तं सन्सूत्रे भाष्ये - " न वै तिङन्तेनोपमानमस्ति” इति,, "किंतु सम्भावनार्थमिव शब्दस्तत्र तत्र” इति कैयटः । तिङन्तेन शब्देनोपमाबोध नास्तीति तद्भाष्यार्थः ॥ "अनद्यतन" इति सूत्रे च भाष्ये - " अयं तु गन्ता देवं पादौ निदधतीत्यादौ अनद्यतनभविष्यद्विषये लुट्कथमित्याशङ्कय गन्तेव गन्तेत्यर्थं नवै तिङन्तेनोपमानमस्तीति दूषयित्वा अनद्यतन इवानद्यतन इति व्याख्यातम् ।
Loading... Page Navigation 1 ... 493 494 495 496 497 498 499 500 501 502