Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 496
________________ तिङर्थवादसारः। ४६७ प्रयोगदर्शनवशागौणेऽप्यनद्यतने प्रत्यय इति कैयटे च ॥ उपमेयत्वं तु क्रियाया अपि भवत्येव, ब्राह्मणवदधीत इत्यादावध्ययनस्योपमेयत्वेन प्रतीतेः। नचाध्ययने ब्राह्मणसादृश्याभाव इति वाच्यम् । ब्राह्मणपदस्य तत्कर्त्तकाध्ययने लाक्षणिकत्वात् ॥. आलङ्कारिका अपि.... "लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नमः। . ....... असत्पुरुषसेवेव दृष्टिनिष्फलतां गता,. इत्यादावनुक्तविषयत्वेनोत्प्रेक्षामेव वदन्ति ॥ काव्यप्रकाशे मम्मटाचायरपि व्यापनादि लेपनादिरूपतया संभावितमित्येवोक्तम् ॥ हरिरप्याह साध्यस्यापरिनिष्पत्तेः सोऽयमित्यजुपग्रहः । तिङन्तैरन्तरेणेवमुपमानं ततो न तैः ॥ इति । अनिष्पत्तेः सिद्धत्वेनाभानात् । तयोरिव मान्तरेण सिंहो माणवक इत्यादिवत् “पठति रोदिति" इत्यादौसोऽयमित्यभिसंबध्यभावात्तिङन्तार्थो नोपमानं यस्योपमा. नस्य इव मन्तरेण उपमेयेन सह सोऽयमित्यभिसंधिस्तस्येव समभिव्याहार उपमानत्वेन प्रतीतिरित्यङ्गीकारात् । ननु रोदितीव पठतीत्यादौ कर्तुं रेवोपमानत्वं भवतु, तस्य च सिद्धत्वेन भानादत आह "साधनत्वं प्रसिद्धं च तिक्षु सम्बन्धिनां यतः । तेनाध्यारोप एव स्यादुपमा तु न कल्प्यते ॥ सम्बन्धिनां गुणाभूतानां साधनत्वं कारणत्वम् अध्यारोप उत्प्रेक्षा ॥ दण्ड्यप्याह "यापमानत्वं स्याद्यभूतोऽसौ क्रियापदे स्वक्रियासाधनव्यग्रो नालमन्यमुपेक्षिा तुम्" इति। नम्वेवं स्वीकारे "स यथा वै श्येनो नियत्यादत्ते एवमयं द्विषन्तं भ्रातृव्यं नियत्यादत्ते यमभिचरति श्येनेन,, इत्यादावपि श्येनपदार्थायपदार्थयोरप्युपमानोपमेयत्वेन प्रतीतिर्न स्यादिति चेन्न । यत्प्रकारकं श्येनकर्तकं पक्ष्यादानं तत्प्रकारकमेतत्कर्तक भ्रातृव्यादानमिति बोधोत्तरं तमेव धर्म निमित्तीकृत्य पश्चात्तयोरुपमानोपमेयभावः । सर्वत्रैव यथाशब्दसमभिव्याहारे बोधद्वयं बोध्यम् । एवं च न वै तिङन्तेनोपमानबोधोऽस्तीत्यनेन शाब्दस्यैव बोधस्य निषेध इति न किंचिदेतत् ॥ यथाशब्दशक्तिस्वभा. वात् । थालः सादृश्यार्थकत्वं तु न युक्तम् । यथा हरिस्तथाहर इत्यादितो यत्सहशो हरिस्तत्सदृशो हर इति बोधेऽपि हरिसदृशो हर इत्यर्थालामात् तस्मात्सादृश्यविशिष्टसस्थाल्प्रत्ययार्थः येन प्रकारेणेति विग्रहवाक्ये तृतीयार्थो वैशिष्टयमिति दिक् ॥ ___ अथ कर्तुराख्यातार्थत्वेऽपि क्रियाविशेष्यको बोधो न शक्यते वक्तुम् । “प्रकृतिप्रत्ययौ सहाथै ब्रूत, इति न्यायविरोधात् । तथा च प्रथमान्तार्थविशेष्यकबोध एवाञ्जसा स्वीकर्तव्य इति चेन्मैवम् । 'प्रकृतिप्रत्ययौ सहाथै ब्रूत' इत्यस्य हि यःप्रत्ययार्थःस प्रधानमेवेति, यः प्रधानं स प्रत्ययार्थ एवेति वाऽर्थो न कत्तुं शक्यते । अजा अश्वाछागीत्यादौ स्त्रीत्वस्य प्राधान्यापत्तेरजादेस्तदनुपपत्तेश्च । किन्तु उत्सर्गोऽयम् । विशेष्यत्वादिना बोधस्तु आख्यातार्थकर्त्तप्रकारकबोधे विशेष्यतया धातुजन्यभाधनोपस्थितिहेतु. रिति कार्यकारणभावमूलकव्युत्पत्त्यनुरोधात् ॥ अत एव प्रधानप्रत्ययार्थवचनमर्थस्या.

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502