Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 494
________________ तिर्थवादसारः। ४६५ कथं तेनैव सम्बन्धेन तिर्थाश्रयान्वयो भवदभिमतः सिद्धेदिति वाच्यम् । तत्र व्यापार आश्रयस्य जन्यत्वसम्बन्धेनैवान्वयाभ्युपंगमात् । . अथ पचतिभवतीत्यतो विक्लित्यनुकूलव्यापारकर्त्तकसत्ताविषयकबोधोपगमे समानवाक्ये तिवयलाभेन तत्र निघातव्यावृत्त्यर्थं "तिङतिङ इति सूत्रेऽतिड्यहणस्यावश्यकत्वेन तत्प्रत्याख्यानपरभाष्यविरोध इति चेद्? न । लौकिकैकवाक्यत्वसस्वेऽपि "एकतिङ्वाक्यम्” इति परिभाषितस्य तस्यासत्त्वेन प्रत्याख्यानसंगतः। न च सर्वत्र व्यापारविशेष्यकबोधमभ्युपगच्छता न पचति चैत्रः' इत्यतश्चैत्राभिन्नाश्रयाभाववान् विक्लित्त्यनुकूलो व्यापार इति बोधोऽभ्युपेतव्यः । अभावश्च वृत्तिस्वसम्ब. म्धावच्छिन्नप्रतियोगिताको वक्तव्यः, स च न सम्भवति । वृत्तित्वस्य वृत्त्यनियामक सयाभावप्रतियोगितावच्छेदकत्वादिति वाच्यम् । पारिमाण्डल्येन न घट इत्यत्र जन्य. त्वस्य तृतीयार्थतया पारिमाण्डल्यनिरूपितजन्यत्वस्याप्रसिद्धत्वेन तादृशजन्यत्वनि. ष्ठाश्रयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य वक्तमशक्यत्वेन निरूपितत्वसम्ब. न्धावच्छिन्नपारिमाण्डल्यनिष्ठप्रतियोगिताकाभावस्यैव तृतीयार्थजन्यत्वेऽवश्यवक्तव्यत्वेन वृत्त्यनियामकसम्बन्धस्याप्यभावप्रतियोगितावच्छेदकत्वस्वीकारात्। वृत्तित्वे वृत्त्यनियामकतायाः सविवादत्वाच्च । 'न पचति चैत्र' इत्यतश्चैत्राभिन्नाश्रयवृत्ति. विक्लत्त्यनुकूलव्यापाराभाव इति बोधस्यैवाभ्युपगमाच्च । शाब्दिकमते व्यापारविशे. ष्यक एव बोध इत्युद्धोषस्य नअसमभिव्याहारस्थलनियतत्वाच्च ॥ ... न चैवमपि व्यापारविशेष्यकबोध इति प्रवादः । त्रयः काला इत्यतः प्रथमान्तार्थविशेष्यकबोधस्यैव सत्त्वेन व्यभिचरित एव । न च तत्र क्रियाध्याहारः सम्भवति । त्रयाणां कालानामविद्यमानत्वेन सन्तीत्यस्याध्याह मशक्यत्वात्। क्रियान्तराध्याहारस्य "अस्तिर्भवन्तीपर" इति कात्यायनवचनविरुद्धत्वाच्चेतिवाच्यम् । अस्तिर्भवन्तीतिवचनस्थास्तिपदस्यान्वययोग्यक्रियावाचकधातुमानोपलक्षणत्वेन'त्रयः काला' इत्यत्रेश्वरेण ज्ञायन्त इत्यस्याध्याहारेण क्रियाविशेष्यकबोधप्रवादपरिरक्षणात् । - युक्तं चैतत् । कथमन्यथा ईश्वरो जानातीत्यस्याध्याहारमन्तरेण "चैत्रेण सुष्यत" इत्यादावगत्या क्रियाविशेष्यकबोधाभ्युपगमे प्रथमान्तार्थविशेष्यक एव सर्वत्र बोध इति भवत्सिद्धान्तसिद्धः प्रवादो न व्यभिचरेदिति विभाव्यताम् ॥ __ अथ सर्वत्र क्रियाविशेष्यकबोधस्येवाभ्युपगमे द्वित्वकत्वयोर्बहुवचनविधायकेन "अस्मदो द्वयोश्च इति सूत्रेण 'पटुरहं ब्रवीमि' इत्यत्र पाक्षिकबहुवचनवारणायारब्धे "सविशेषणानां प्रतिषेधः” इति वार्तिके जागरूके 'के यूयं, मैथिला वयम्' इति प्रश्नोत्तरवाक्ये। - "तव गुणविलिखनहेतोर्वयमपि कुब्जाः किमौदास्यम्। ___ इति कविप्रणीतवाक्ये च बहुवचनानुपपत्त्या क्रियायोग एव स निषेध इत्यवश्यवक्तव्यम् । तथा च तत्र तत्र क्रियाध्याहारे बहुवचनानुपपत्तिः । अनध्याहारे सर्वत्र क्रियाविशेष्यक एव बोध इति नियमासङ्गतिरिति सेयमुभयतस्पाशारज्जुरिति चेद ? मैवम् । "तिब्समानाधिकरणे प्रथमा” “अभिहिते प्रथमा"इति,, वार्तिकस्वारस्येन क्रियाध्याहारस्यावश्यकतया उक्तवाक्यद्वये उद्भूतावयवभेदविवक्षायां बहुवचनस्य साधुत्वकल्पनात् । स निषेधस्तु।मुख्यार्थकस्यैव । अत एव-... - त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिसानोन्नता। . __ इत्योदावपि बहुवचनं सङ्गच्छते॥ ५.००

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502