Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 493
________________ ४६४ तिर्थवादसारः। चन्दनसंयोगजन्यसुखतात्पर्येण "चन्दनं संयुनक्ति सुखयतीति" तन्तुनाशप्रयोज्यपटनाशतात्पर्येण "तन्तुर्नश्यति पटो नश्यतीति" नाशोदेश्यकगमनतात्पर्यण "नश्यति गच्छतीति" व्रजनविषयकश्लाघातात्पर्येण "व्रजति श्लाघयतीति" चैत्रगमनद्वेषतात्पयेण-"चैत्र आगच्छति द्वेष्टीति" शिष्यपाठेच्छातात्पर्येण "शिष्याः पठन्त्विच्छति गुरुः” इत्यादिप्रयोगापत्तेरित्याहुः । तदसत् । तिप्रकृतिधात्वर्थस्य ज्ञानार्थकधातु. भूधात्वर्थयोरव भेदसम्बन्धेनान्वये साकासात्वमित्यत्रैव भाष्यस्य तात्पर्यात् । “जानीहि जानकि न जीवति रामचन्द्रः" जानीहि जगन्नाथाज्जायते जगत्" । "पश्य मृगो धावति' “पचति भवति" इत्यादावेव तथाऽन्वयस्य दर्शनात् । “याहि याहि याति । इत्यादावभेदान्वयस्य दर्शनाच्च । हरिं नमेच्चेत्सुखं यायादित्यादौ हेतुहेतुमद्भावादिनाऽन्वये तु लिङादिसमभिव्या. हार एव हेतुः । अत एव भूवादिसूत्रे भाष्ये-"पचादयः क्रिया भवतिक्रियायाः को भवन्ति” इत्येवोक्तम् , न तु भवत्यादिक्रियायाइति। यद्यपि क्रियायाः प्राधान्ये "प्रयाति पुरुषस्तस्य पादयोरभिवादय" । इत्यादौ।। "सुरथो नाम राजाऽभूत्समस्ते क्षितिमण्डले। तस्य पालयतः सम्यक् इत्यादौ च तत्पदेनाप्रधानत्वात्पुरुषसुरथयोः परामर्शो न स्यादित्याहुः । तदपि हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् । इत्यत्र सच्छब्देन ग्रसनपरामर्शो न स्यादित्यनेनैव पराकरणीयम् ॥ तस्मात्सर्व. नाम्नामुत्सर्गतः प्रधानपरामर्शित्वमित्यत्र प्रधानत्वं वृत्तिग्रहमुख्यविशेष्यत्वमेव वाच्यम्, न तु शाब्दबोधीयमुख्यविशेष्यत्वम् , तच्च पुरुषसुरथप्रासादीनामस्त्येवेति न क्वाचिदनुपपत्तिः। नवा 'शोभना गा तां पिब' इत्यादीनां प्रयोगाणामापत्तिश्च । अत एव । पटोलपत्रं पित्तघ्नं मूलं तस्य कफापहम्' । "दशैते राजमातङ्कास्तस्यैवामी तुरङ्गमाः। चैत्रो ग्रामं गतस्तत्र मैत्रः किं कुरुतेऽधुना ॥ अप एव ससर्जादौ तासु वीर्यमवासृजत् । नीलो मणिर्गणः सोऽत्र दानादिर्बोध्यते तदा ॥ . इत्यादयः सङ्गच्छन्ते। अत एव च महाभाष्ये-"अथ शब्दानुशासनम् केषां शब्दानामिति प्रश्नः सङ्गच्छते । यदपि क्रियायाः प्राधान्ये "अश्वो धावत्यानय" "मृगो धावति मारय” इत्यादयः प्रयोगा न संगच्छेरन्निति कश्चिदाक्षिप्तम् , तदपि प्रथमान्तार्थप्राधान्यान्न । 'शृणु मेघो गर्जति' 'निवारय देवदत्तः प्रलपति' इत्याद्यसङ्गतितुल्यसमाधानम् । तस्मात्स्वकपोलकल्पनया न प्रयोगव्यवस्थाऽऽस्थेयेत्येव श्रेयः, स्थितस्य गतिश्चिन्तनीयेति न्यायात्। ; किञ्च यत्किञ्चिदभेदसम्बन्धेनैकविशेषणविशिष्ट तत्सजातीयसम्बन्धेन विशेषणान्तरान्वयोऽव्युत्पन्नः । अत एव समवायेन घटत्वविशिष्टे घटे समवायेन द्रव्यत्वस्या. न्वयतात्पर्येण घटो द्रव्यत्वस्य' इत्यादयो न प्रयोगाः। तथाच समवायेनैकत्वविशिष्ठेचैत्रे समवायेन कृतेरन्वयस्यैवासम्भवेन क प्रथमान्तार्थविशेष्यकबोधस्यावसरोअप सम्भवेत् । न चेशव्युत्पत्त्याभ्युपगमे वृत्तित्वसम्बन्धेन वर्तमानकालविशिष्टे व्यापार

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502