Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
तिङर्थवादसारः ।
દુર્
कान्न - पुरुषेष्वतद्भावेऽपि तदुपचारः" इति गौतमोक्तपरिगणनभङ्गापत्तेश्च ॥ किंचलक्षणास्थले कुत्राऽपि पदान्तरस्य न तदर्थप्रत्यायकत्वम्, किन्तु गौतमसूत्रे "तदुप - पार" इति श्रुतेस्तीरादौ गङ्गात्वमारोप्य गङ्गात्वेनैव बोधः । अत एव न नपुंसक स्वत्वम् । अत एव च 'गङ्गायां मीनघोषौ स्त' इत्यपि संगच्छते । अन्यथा गङ्गापदस्य तीर्थकत्वे मीनाधारत्वासम्भवः । प्रवाहार्थकत्वे घोषाधारत्वासम्भवः । युगपदवृत्तिइयकल्पनं तु न सम्भत्येव । पदानां सति सार्थकत्वसम्भवे तात्पर्यग्राहकत्वमात्रकल्पनाया अन्याय्यत्वाच्च ॥न चैवं वाक्यार्थस्यान्वयानभ्युपगमे
'श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः । "पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः ॥ "देवाकर्णय संग्रामे रामेणासादिताः शराः” ।
“जानामि सीता जनकप्रसूता जानामि रामो मधुसूदन" ॥ इत्यादिशिष्टप्रयोगाणां गतिविरह इति वाच्यम् । हृदिस्पृक् दिविस्पृगित्यादौ कर्मणि सप्तमीवत् उत्पत्तय इतिकर्मणि प्रथमेति सप्तशतीत्रोत्र नागेशगदाधरादिभिरभिहितत्वात् । पश्य लक्ष्मण पम्पायामित्यस्य -
शनैः शनैः पदं धत्ते जीवानामनुकम्पया । पश्य लक्ष्मण पम्पायां बकः परधार्मिकः ॥
इत्याकारकस्यैव श्लोकस्य श्रुतत्वेन परमधार्मिकबककर्त्तकजीवानुकम्पाप्रयोज्यशनैःशनैःपदधारणकर्मकदर्शनस्यैव प्रतिपिपादयिषितत्वेन 'पश्य मृगो धावति' इत्येतत्समत्वात् । देवाकर्णयेत्यत्रापि "तिसमानाधिकरणे प्रथमा' इति वार्त्तिकानुरोधेन सन्तीत्यस्याध्याहारस्यावश्यकत्वेन रामकर्तृकासत्तिविशिष्टशर कर्तृकसत्ताकर्मका कर्णनस्यैव शब्दतः प्रतिपिपादयिषितत्वात् । जानामि सीतेत्यत्र जानामि सीतां जनकप्रसूतामित्यादि द्वितीयान्तपाठेऽपि छन्दोऽहानेः । सीतेत्यादिप्रथमान्तपाठस्य क्वचिदुपलम्भेऽपि लेखकप्रमादपतितत्वकल्पनात् ॥ न चैवं वाक्यार्थस्यान्वयाऽनभ्युपगमे “सपर्यया साधु स पर्यपूपुजत्”
"जगाद मधुरं वाचं विशदाक्षरशालिनीम्” ।
"स जगदे वचनं प्रियमादरान्मुखरताऽवसरे हि विराजते " ॥
इत्यादिप्रयोगेषु अर्ध्यादिकत्वविशेषितसपर्यापदार्थस्य पूजने मधुरत्वविशेषितवाकूपदार्थस्य गदधात्वर्थे प्रियत्वविशेषित-वचनपदार्थस्य च गदधात्वर्थेऽभेदेनान्वयः । कथं निर्वहेत् विशेषणरहितसपर्यादेः पूजनादावन्वयस्य 'घटो घट' इत्यादिवदव्युत्पन्नत्वादिति वाच्यम् । धातूनामनेकार्थकत्वेन तत्र पूजयतेः सत्कारार्थकत्वस्य गदधातो. रुच्चारणार्थकत्वस्य कल्पनेनोपपत्तेः । जगाद मधुरामित्यादौ माधुर्यविशिष्टवागादेरभेदेन गदादिधात्वर्थे ऽन्वयाभ्युपगमे मृदु पचतीत्याद्यनुरोधेन तार्किककल्पितेन "क्रियाविशेषणानां कर्मत्वं क्लीबत्वं च" इति वचनेन नपुंसकत्वापत्तेश्च । वाक्यस्फोटसिद्वान्तशालिनां शाब्दिकानां मते वाक्यशक्तेरभ्युपगमेन शाब्दबोध आकाङ्क्षाज्ञातस्य हेतुत्वानभ्युपगमेन वाक्यार्थान्वयस्याऽपि सम्भवाच्च ॥
यत्तु 'पश्य सृगो धावति' इत्यादौ धावनस्य कर्मतासम्बन्धेन दृशिक्रियायामन्वयो न सम्भवति । "न हि क्रिया क्रियान्तरसमवायं गच्छति" इति “सार्वधातुके यक्" इति सूत्रस्थभान्यप्रमाण्येनैकख्याः क्रियायाः क्रियान्तरेऽन्वयस्याव्युत्पन्नत्वात् । अन्यभा
Loading... Page Navigation 1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502