Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 490
________________ तिर्थवादसार। भुक्त्वा प्रजति,, "चैत्र इव मैत्रो गच्छति' इत्यादौ क्त्वार्थेवार्थयोराख्यातार्थसंख्या. न्वयवारणायेतराविशेषणत्वघटितं वाच्यम् । तत्रेतरत्वेन जगतः प्रवेशान्महद्र वम् ॥ किञ्च यत्नस्यापि व्यापारविशेषरूपतया धातुनैव लाभसंम्भवात्तत्राख्यातस्य श. किकल्पनमयुक्तम् । “अनन्यलभ्यो हि शब्दार्थ इति न्यायात्। न च सत्यपि गौरवे पचतीत्यस्य पाकं करोतीति विवरणानुरोधेनाख्यातस्य कृतिवाचकत्वमुपेयत इति वा. च्यम्। करोतेयत्नार्थकताया असिद्धेः। कथमन्यथा "रथो गमनं करोति,, "बीजेनाङ्कुरः कृत, इत्याधुपपद्येत, अचेतने रथादौ कृतेर्बाधाद् ॥ किं चैवं जानातेरिव करोतेरपि कर्तृ. स्थभावकत्वाविशेषेण कर्मवद्भावानुपपत्त्या ज्ञायते घटः स्वयमेवेतिवत् क्रियते घटः स्वयमेवेत्यपि न स्यात् , तत्र तत्रोत्पत्त्यनुकूलव्यापारे लक्षणाभ्युपगमस्तु गौरवेणैव पराहन्तव्यः । व्यापारसामान्यार्थकेन यत्नार्थकेन वा प्रकृतिभूतेन करोतिना विवरणमपि न पचतीत्यादौ तिर्थस्य, किन्तु प्रकृतिभूतधात्वर्थस्यैव तत्र पाकशब्दस्य विक्लित्ति. फलमात्रार्थकत्वेन करोतेश्च व्यापारसामान्यार्थकत्वेन धातोरंशद्वयस्योभाभ्यां विवर. : णात् । नचैवं काष्ठैः पाक इति न स्यादिति वाच्यम् । करोतिसमभिव्याहृतपाकपदस्यैव फलमात्रवाचकत्वात् ॥ कथमन्यथा पक्ववानित्यस्य पाकं कृतवानिति विवरणं, किं कृतमिति प्रश्नस्य पक्वमित्युत्तरमपि संगच्छेत । अत एव "कथं ज्ञायते क्रियावचनाः पचादय इति यदेषां करोतिना सामानाधिकरण्यम् , किं करोति पचति,, इति भूवादिसूत्रभाष्ये उक्तं संगच्छते ॥ - किं च करोतेर्त्यनार्थकत्वे यत्नवाचकत्वाविशेषेण यततेरियाकर्मकतापत्तिस्तथाच घटे यतते इतिवद्घटे करोतीत्यप्यापयेत । न च करोतेरुत्पत्त्यनुकूलयत्नवाचकस्वेन न यततिसमकक्षता न वा क्रियते घटः स्वयमेवेत्यस्यानुपपत्तिः। उत्पत्तेः कर्मस्थत्वादिति वाच्यम् । एवं सति रथो गमनं करोतीत्याद्यनुरोधेन व्यापारार्थकत्वस्याप्यवश्याभ्युपेयत्वेन 'व्यापारत्वेन व्यापारान्तरस्येव यत्नस्यापि वाचकत्व. मभ्युगच्छता शाब्दिकानां मतादविशेषात् ॥ न च कृधातोः तिन्प्रत्ययेन निष्पन्नात्कृतिशब्दाद्यनप्रतीतेः करोतेयत्नार्थकतोपेयत इति वाच्यम् । करोतेरेव मनिन्प्रत्ययेन निष्पन्नात्कर्मशब्दाच्छप्रत्ययेन निष्पन्नात्क्रियाशब्दाच्च क्रियायाः प्रतीतेस्तदर्थकत्वस्यैव युक्तत्वात् कृतिशब्दाद्यनप्रती. तेर्धातूनामनेकार्थकत्वेनाप्युपपत्तेः । किञ्च प्रत्ययार्थप्राधान्ये "भावप्रधानमाख्यात सत्त्वप्रधानानि नामानि" इति यास्कवचनविरोधः । न च निरुक्तस्य भावशब्देन भावयति क्रियामुत्पादयतीति व्युत्पत्त्या यत्न एवोच्यत इति न तद्विरोध इति वाच्यम् । आख्यातसामान्यलक्षणस्य भावाख्यातेऽव्याप्तेः । 'चैत्रेण सुप्यत' इत्यत्र धा. त्वर्थविशेष्यतायास्तैरप्यङ्गीकारात् । अन्यलभ्यस्य तस्य शास्त्रबलात्प्रत्ययार्थत्वस्याऽ. प्यङ्गीकारे कर्तकर्मणोरपि शास्त्रबलात्तद्वाच्यता दुर्वारैव "अकर्तरि च कारके संज्ञाया. म् इन्युक्तेर्भावशब्दे कर्तरि घजो दुर्लभत्वाच्च । पचादि पाठकल्पने प्रमाणविरहाच्च । 'क्रियाप्रधानमाख्यातम्" इति रूपप्सूत्रस्थभाष्यविरोधस्यैवमपि दुष्परि. हरत्वाच्च । नचाख्यातशब्दस्य "सर्वमाख्यातजन्नाम इति "उणादय" इति सूत्रभाष्ये-ना. मान्याख्यातजानि" इति शाकटायनोक्तौ च धातावपि प्रयोगदर्शनेन आख्यातं धातुः भावप्रधानं फलव्यापारयोरर्थयोर्मध्ये भावप्रधानमित्येवार्थः । किञ्च बहुव्रीहितत्पुरुष

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502