Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 491
________________ तिङर्थवादसारः। स्य लघुत्वेन भावाद्भावस्य वा प्रधानमाख्यातमित्यर्थसम्भवेन धात्वर्थभावनिरूपितं प्राधान्यमाख्यातस्येत्येव लभ्यते । यास्कवचनेन आख्यातशब्दस्य तिङि प्रयोगस्तु "आख्यातमाख्यातेन" इत्यादौ प्रसिद्ध एव । तत्र तिङन्तमित्यर्थस्तु प्रत्ययग्रहण. परिभाषालभ्य एव । "कर्तृकरणे कृता" इतिवदिति न तत्र शक्तरुपयोग इति न निरुक्तविरोध इति वाच्यम् , “पचादिक्रिया भवतिक्रियायाः का भवन्ति" इति भूवादिसूत्रस्थभाष्यप्रामाण्येन तिङन्तजन्यबोधे भावप्राधान्य एव निरुक्तस्य तात्पर्यात् । धात्वर्थव्यापारापेक्षतिङर्थकृतिप्राधान्य निरुक्तस्य तात्पर्यकल्पने तिङर्थकृतेः प्रथमान्तार्थ एवाकाङ्क्षावशेनान्वयस्य भवदभिलषितत्वेन प्रथमान्तार्थमुख्यविशेष्यकबोधापत्तौ “पश्य मृगो धावति" इत्यादौ अन्तरङ्गादुपजीव्यादपि प्रधानकार्यस्य बल. वत्त्वस्य "हेतुमति च" इति सूत्रे भाष्ये प्रतिपादनेन मृगपदादू द्वितीयापत्तेः । न च 'पश्य मृग' इत्यत्र तमिति कर्मांध्याहार्यम् । वाक्यभेदापत्तौ भाष्यसिद्धैकवाक्यता. भङ्गापत्तेः। न च वाक्यार्थभूतधावनानुकूलव्यापारानुकूल कृतिविशिष्टस्य मृगस्य दर्शनकर्मतयाऽन्वयेन वाक्यस्याप्रातिपदिकत्वेन न द्वितीयापत्तिः। न वा वाक्यभेदो, नापि कर्मतासम्बन्धेन तण्डुलस्य पाकेऽन्वयतात्पर्येण 'तण्डुलः पचति' इति वाक्यस्य प्रामाण्यवारणायावश्यकतया "नामार्थधात्वर्थयोभेदेन साक्षादन्वयोऽव्युत्पन्न" इति व्युत्पत्त्या विरोधः । अथवा मृगस्य पूर्व धावतीत्यनेनान्वयेन तिङ्समानाधिकरणे प्रथमा" इति वार्त्तिकात्प्रथमाया उपपत्तौ पश्चादृशिना केवलस्य मृगस्यान्वयेऽपि न द्वितीया । प्रत्ययान्तत्वेनाप्रातिपदिकत्वादिति वाच्यम् । उत्कटधावनकर्मकदर्शनप्रतिपिपादयिषयैव ‘पश्य मृगो धावति' इति प्रयोगेण तद्विरोधात् सुबन्तार्थस्य कर्मत्वादिना क्रियायामन्वये निराकाङ्क्षत्वाच्च । अन्यथा घट इति परिनिष्ठितस्य कर्मतया ऽन्वयेन घटः पश्यति इति प्रयोगापत्तेः । न च कृतौ विशेषणस्यापि धावनस्य दर्शनेs. न्वयः कर्तुं शक्यते । एकत्र विशेषणतयाऽन्वितस्यापरत्र विशेषणत्वायोगात् । अत एव वह्निमान्नास्ति' इति वाक्याद्वह्निमत्त्वावच्छिन्नप्रतियोगिताकाभाव एव बोध्यते । न तु वह्नित्वावच्छिन्नप्रतियोगिताकाभावोऽपि। धावनानुकूलव्यापारानुकूलकृतिविशेषितमृगस्य कर्मतया दर्शनेऽन्वयस्य दुर्घटत्वाच्च । तस्य वाक्यार्थत्वेन विशिष्टो. पस्थापकपदाभावात् पदज्ञानस्योपस्थितिद्वारा शाब्दबोधहेतुत्वेन नित्यो घट इत्यादिवाक्यस्य प्रामाण्यवारणाय पदार्थः पदार्थेनान्वेति, नत्वपदार्थो न वा पदार्थताव. च्छेदकम् , नत्वपदार्थेन, नवा पदार्थतावच्छेदकेन" इति स्वीकारेण विशेष्यतासम्बन्धेन प्रकारतासम्बन्धेन वा शाब्दबोधं प्रति विशेष्यतासम्बन्धेन पदजन्यतादृशोपस्थितेहेतुत्वात् । किञ्च विशिष्टस्य कर्मतयाऽन्वयाऽभ्युपगमे "कूजन्तं राम रामेति मधुरं मधुराक्षरम् । आरुह्य कवितां शाखां वन्दे वाल्मीकिकोकिलम् । इत्यादौ कूजनकर्त्तत्वविशेषितवाल्मीकिपदार्थस्य वन्दनेऽन्वयेन पश्य मृग' इत्यतोऽविशेषेण द्वितीया न स्यात् । किश्चैवं 'नीलो घटः करोति' इति वाक्यस्याऽपि प्रामाण्यप्रसङ्गः । न च दृशधातोरेव धावनकर्तृत्वविशिष्टमृगकर्मकदर्शने लक्षणा । अन्यानि पदानि तात्पर्यग्राहकाणीति वाच्यम् । सत्यां तात्पर्यानुपपत्तावेव लक्षणास्वी. कारात् । एवं यथेच्छलक्षणाऽभ्युपगमे "सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारणसामीप्य-योग-साधना-पत्येभ्यो ब्राह्मण-मञ्च-कठ-राज-शक्तु-चन्दन-गङ्गा-शाट

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502