Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४६०
तिर्थवादसार
स्थिते तिङन्ते कथं कृति बोधयेत् "अन्यायश्चानेकार्थत्वम्" इति न्यायात् ॥ ___ अथ वैयाकरणरीतिमाश्रित्य सर्वत्रादेशा एव वाचका इति ब्रूषे, तर्हि घटं घटेन हरेऽव विष्णोऽव इत्यादिषु “सर्वे सर्वपदादेशा,, इतिन्यायेन पदस्फोटो वाक्यस्फोटश्च सिद्धयेदिति महत्तवानिष्टम् ॥ किञ्च "युष्मदि समानाधिकरणे मध्यमः" "अस्मद्युत्तम" इति सामानाधिकरण्यप्रयुक्ता पुरुषव्यवस्था कर्तुंर्वाच्यतायां प्रमाणं प्रयुज्यमानाप्रयुज्यमानयुष्मदाद्यर्थगतसंख्याभिधायित्वे मध्यम इत्याद्यर्थस्तु लक्षणामन्तरेण कर्तुम. शक्यः। लक्षणायां तु लाघवानवसरः ॥ किञ्चाख्यातस्य कृतिवाचकत्वेऽभिधानानभिधानव्यवस्थोच्छेदापत्तिस्तथाच चैत्रः पचतीत्यादावपि तृतीयापत्तिः स्यात् । न च "कर्तृकरणयोस्तृताया” इत्यादेः "द्वयेकयोद्विवचनैकवचने"इत्यायेकवाक्यतया कर्तगते. कत्वादिसंख्यायामन्येनानभिहितायां तृतीयेत्याद्यर्थानापत्तिरिति वाच्यम् । कृत्प्रत्ययस्य सङ्ख्यावाचकत्वाभावेन पक्ता देवदत्त इत्यादौ संख्यानभिधानेन तृतीयापत्तेः । न च "कत्तेकरणयोः' इत्यत्रापि भावप्रधाननिदेशमाश्रित्य कृतावनभिहितायां तृतीयेत्येवार्थः । तिङा विशेष्यतया कृता विशेषणतया च कृतेरभिधानान्न पचति चैत्र इत्यादौ पक्ता चैत्र इत्यादौ च तृतीयापत्तिरिति वाच्यम् । क्रियते घटश्चत्रेणेत्यादावपि तन्मते करोतेः कृतिवाचकत्वाविशेषेण धातुना कृतेरभिधानेन तृतीयानुपपत्तेः। “तिकृत्तद्धितसमासै” रितिपरिगणनस्य "विषवृक्षोऽपि सम्वयं स्वयं छेत्तुमसांप्रतम्" "नारद इत्यबोधि स" इत्याद्यनुरोधेनोपलक्षणत्वात् । रथो गच्छतीत्यादौ, तण्डुलः पच्यते स्वयमेवेत्यादौ चाचेतने रथादौ कृतेर्बाधितत्वेनागत्याऽऽश्रये लक्षणाया अवश्याभ्यु. पेयत्वेन तत्र तिडा कृतेरनभिधानेन रथादेस्तृतीयापत्तेश्च "कर्तकरणयोः" इत्यत्र कर्तृपदस्याश्रयकृत्युभयपरत्वेनानभिहित आश्रयेऽनभिहितायां कृतौ च तृतीयेत्यर्थस्तु दुर्वर्च इति न तावता रथादेस्तृतीया वारयितुं शक्यते ॥
किञ्च कर्तुरवाच्यत्वे साकर्यातिशयद्योतनेऽकर्मकात्पचतेर्भावे लकारे पच्यते ओदनेनेत्यादौ कर्मवद्भावेन ओदनपदाद्वितीयापत्तिः । नच ततः परत्वात्तृतीयया भाव्यम् । अतिदिश्यमानधर्मविरुद्धस्वाश्रयधर्मप्रयुक्तकार्याभावस्यातिदेशस्वभावसिद्धत्वात् । कर्तुः कुत्रापि लकारवाच्यत्वाभावेन “कर्मवत्कर्मणा" इत्यनेन लकारवाच्यस्यैव कर्तुः कर्मवद्भाव इत्यस्य वक्तुमशक्यत्वात् ॥ किञ्चाख्यातस्य कृतिवाचकत्वे पाचक इत्य. स्य पचतीति विवरणं न स्यात् । असमानार्थत्वात् । किञ्च कृतिवाचकत्वे कृतित्वं शक्यतावच्छेदकमाश्रयत्वमाश्रयत्वत्वञ्च लक्ष्यतावच्छेदकं कृतिश्च शक्यतावच्छेदिकेति गौरवम् । आश्रयवाचकत्वे तु सर्वत्राश्रयत्वमेव शक्यतावच्छेदकमिति लाघवम् ॥
किञ्च कृतिवाचकत्वे कालस्य कचित्समानप्रत्ययोपात्तायां कृतावन्वयः, क्वचिच्च स्थो गच्छतीत्यादौ धात्वर्थव्यापार इति आख्यातार्थकालनिष्ठप्रकारतानिरूपितविशे. ध्यतासम्बन्धेन शाब्दबोधं प्रति आख्यातजन्यकृत्युपस्थितिर्धातुजन्यव्यापारोपस्थि. तिश्च कारणमिति परस्परजन्यशाब्दबोधे व्यभिचारादिवारणाय चाव्यवहितोत्तरत्वादिप्रवेशेन गौरवम् । आश्रयवाचकत्वे तु सर्वत्र व्यापार एव कालान्वयेनैक एव कार्यकारणभाव इत्यतिलाघवम् ॥ किञ्च कृतिवाचकत्वे आख्यातार्थसंख्यायाः समभिव्याहृतप्रथमान्तार्थ एवान्वयादाख्यातार्थसंख्यानिष्ठप्रकारतानिरूपितविशेष्यतास. म्बन्धेन शाब्दबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणत्वम्। तदपि "देवदत्तो
Loading... Page Navigation 1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502