Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
श्रीगणेशाय नमः ॥ शोपनामकश्रीखुद्दीशर्ममैथिलमनीषिणा सगृहीतः
तिङर्थवादसारः।
वाणी प्रणम्य शिरसि प्रणिधाय पाणी श्रीपाणिनिप्रमुखमुख्यवचो विचिन्त्य । आक्षिप्य तार्किकमतं च सजैमिनीयमाख्यातवाच्यमनुवच्मि यथामनीषम् ॥१॥
अथ धावूनां फलव्यापारयोराख्यातस्य कर्तकर्मणोः संख्याकालयोश्च शक्तिः। तत्र व्यापाराश्रयः कर्ता फलाश्रयः कर्म फलव्यापारयोर्धातुलभ्यत्वेनानन्यलभ्याश्रयमात्रमाख्यातशक्यम् । शक्यतावच्छेदकं चाश्रयत्वं तत्तच्छक्तिविशेषरूपमखण्डभूतम् । क
प्रत्ययविवक्षायां कर्ता व्यापारस्य विशेषणम् कर्मप्रत्ययविवक्षायां कर्म फलस्य विशेषणं, संख्या च यथाविवक्षं कर्त्तकर्मणोविशेषणम् । कालस्तु सर्वथा व्यापारस्यैव विशेषणम् । तथा च चैत्रस्तण्डुलं पचतीत्यादिवाक्यतस्तण्डुलाभिन्नाश्रयवृत्तिविक्लित्तिजनको वर्तमानकालिक एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिापार इत्यादिरीत्या बोधः। चैत्रेण तण्डुलः पच्यते इत्यादितस्तु एकत्वविशिष्टतण्डुलाभिन्नाश्रयवृत्तिजनको वर्त्तमानकालिक एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिापार इत्यादिरीत्या प्राचीनवैया. करणमते बोधः।
नवीनवैयाकरणमते तु-एकत्वविशिष्टचैत्राभिन्नाश्रयवृत्तिवर्तमानकालिकव्यापा. रजन्या एकत्वविशिष्टतण्डुलाभिन्नाश्रयवृत्तिविक्लित्तिरित्यादिरीत्या फलविशेष्यको बोधः । तेषां मते "सुप आत्मनः क्यच्” इतिसूत्रभाष्यानुरोधेन धातोः फले व्यापारे च खण्डशः शक्तिस्वीकारेण विशेष्यविशेषणभावव्यत्यासादिति सिद्धान्तः ॥ ___ अत्र नैयायिकाः-यत्नाश्रयस्य कर्तृत्वेन तत्राख्यातस्य शक्तावनन्तानां यत्नानां शक्यतावच्छेदकत्वे गौरवाद्यत्नत्वजातेः शक्यतावच्छेदकत्वे च लाघवात्पचतीत्यस्य पार्क करोतीति विवरणदर्शनेन पचधातुप्रतिपाद्यस्य पाकशब्देनाख्यातप्रतिपाद्यस्य यत्नार्थकेन करोतिना विवरणेन विव्रियमाणस्याप्याख्यातस्य यत्नार्थकत्वावश्यक. त्वाच्च । कर्तुः समभिव्याहृतप्रथमान्तपदेनाक्षेपेण वा लाभाच्चानन्यलभ्ययत्न एव शक्तिः । “प्रकृतिप्रत्ययौ सहाथै ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्" इतिन्यायानुरोधेन प्रत्ययार्थे यत्ने प्रकृत्यर्थो व्यापारो विशेषणम् । प्रत्ययार्थो यत्नः संख्या चाक्षेपादिलभ्ये प्रथमान्तार्थे विशेषणम् । तथा च 'चैत्रस्तण्डुलं पचति' इत्यादिवाक्यतस्त. ण्डुलनिरूपिताधेयतावद्विक्लित्त्यनुकूलव्यापारानुकूलयत्नवानेकत्वविशिष्टश्चैत्र इति प्रथमान्तार्थमुख्यविशेष्यक एव बोध इत्याहुः । __ तत्रेदं वक्तव्यम्-शक्तिग्राहकशिरोमणिभूतेन व्याकरणेन बोधितायाः कर्तरि लकारशक्तेस्त्यागे को हेतुः । तथाहि “लः कर्मणि च भावे चाकर्मकेभ्यः” इति सूत्रं कर्तरि लकारशक्तिं ग्राहयति । तत्र हि "कर्तरि कृद्" इत्यतश्चकारेण कर्तरीत्यनुकृष्यते बोधकतारूपां तिबादिशक्ति तत्स्थानित्वेन कल्पिते लकारे परिकल्प्य लकाराः कर्मणि
Loading... Page Navigation 1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502