Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 485
________________ ४५६ वैयाकरणभूषणव्याख्यायाम् । अथाभेदैकत्वसंख्यानिर्णयः। ___ *अभेदैकत्वसंख्येति । अभेदरूपा एकत्वसंख्येत्यर्थः । *त्रित्वं न्यायादिति । "कपिञ्जलानालभेत" इत्यत्र बहुत्वं त्रित्वरूपमेव प्रथमोपस्थितत्वात् । *ग्रहं सम्माटीति । अत्र ग्रहमिति ईप्सिततमे कर्मणि द्वितीयाबलादुद्देश्यस्य प्राधान्यं ग्रहस्य गम्यते, तदनुरोधेन गौणस्य संमार्जनस्य वृत्तिर्युक्तैव । अतः श्रूयमाणाप्युद्देश्यगता संख्या न विवक्षिता। 'पशुना यजेत' इत्यत्र तु यागं प्रति करणीभूतः पशुः गौणः । न च गौणानुरोधेन प्रधानस्यावृत्तिर्भवति इति वैषम्यम् । गृह्यते सोमरसोऽनेनेति ग्रहः पात्रविशेषः । अन्यत इत्यस्य विवरणमनुवाद्यस्येति । वाक्यभेदादितिः । “ग्रहं संमाष्टि"इत्यत्रैकत्वस्यापि विधाने ग्रहमुद्दिश्य संमार्जनस्यैकत्वस्य च विधानाद्वाक्याभेदापत्तिरिति भावः। *संसर्गो जन्यत्वमिति आनन्तर्यस्याविशिष्यत्वेऽपिभुक्त्वैव तृप्तो न पीत्वेति प्रयोगाज्जन्यत्वं संसर्गः। एवं कदाचिदध्ययनेऽधीत्य तिष्ठती. त्यप्रयोगात् व्याप्यत्वमपि संसर्ग इत्यर्थः। इति अभेदैकत्वसंख्याक्त्वाद्यर्थश्च । अथ स्फोटनिर्णयः। *वर्णस्फोट इति । प्रकृतिप्रत्यया वाचका इत्यर्थः। *पञ्चकोशेति । अन्नमयं ब्रह्म प्राणमयं ब्रह्मेत्यादेरनन्तरं ब्रह्मपुच्छं प्रतिष्ठेति श्रूयते, अन्न रसपरिणामत्वादन्नशब्देन शरीरमुच्यते । एतेन शरीरातिरिक्तस्य पुत्रकलत्रादेरात्मत्वभ्रमो व्यावर्तितः । एवं प्राणादिविशिष्टस्यात्मन उपदेशेन वाक्यस्यानात्मत्वं प्रतिपादितम् । एतेषां कोशत्वं चान्तः स्थितस्यात्मनः असिकोशवदहिराच्छादकत्वसादृश्यात् । प्राणो न भोक्ता, किंतु मन एवेति तदात्मेत्यर्थः । विज्ञायतेऽनेनेति विज्ञानमन्तःकरणं बुद्धयाख्यवृत्तिमदन्तःकरणविशिष्ट आत्मा विज्ञानमय आनन्दाभिव्यञ्जकोपाधिविशिष्ट आत्मानन्दमयः। सचायमपि सोपाधिक एवेत्यत उक्तं ब्रह्मपुछमिति। पुच्छत्वेन प्रकल्पितमानन्दमयस्याधारभूतं "सत्यं ज्ञानमनन्तं ब्रह्म" प्रतिष्ठा आश्रयः । *गत्वावछिन्न इति । यत्किञ्चिङ्गकारभेदे तु गकारनिष्ठाभेदप्रतियोगिता यत्किञ्चिद्गकारत्वावछिन्ना। अत्रेदम्बोध्यम्व्यवहारस्यानादितया प्रवाहानादित्वं शब्दस्य परैरभ्युपेयम् , तत्र चानन्दशब्दकल्प. नापेक्षया नित्यैकशब्दस्वीकार एव लाघवम् । यथाहि कुण्डलादिविकारागमेऽपि सुवर्णमित्येवं सत्यम्, एवं सकलविशेषानुगतं स्फोटाख्यमेव सत्यम् । तत्र स्फोटशब्दो ब्रह्मणि श्रुतिषु प्रसिद्धः । ब्रह्मणशब्दात्मकत्वं च श्रुतौ प्रसिद्धम् । 'सत्यासत्यौ तु योभागौ' इति व्यक्तेरनित्यत्वाजातेश्च नित्यत्वादिति भावः। *उक्तं चेति । असत्योपाधिस्तदुपहितमित्यर्थः। *आविद्यको धर्म इति । अस्मिन्मते अविद्याकल्पितस्य गोत्वादिधर्मस्यासत्यत्वं युक्तमेव । *शुद्धतत्वमिति* । तत्वशब्दःपारमार्थिकवस्तु. वाची। तदुक्तं हरिणा आत्मा वस्तुस्वभावस्य शरीरं तत्त्वमित्यपि । द्रव्यमित्यस्य पर्यायतत्वमित्थमिति स्मृतम् ॥ इति । आभ्यन्तरमनवयवं बोधस्वभावं शब्दार्थमयं निविभागं शब्दतत्वं तदेव परावाक्

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502