Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
त्वादिभावप्रत्ययार्थनिर्णयः ।
अथ निपातार्थनिर्णयः ।
*स्वस्वयुक्तेति* । स्वं धातुः स्वार्थो यत्फलमथवा स्वयुक्तनिपातार्थो यत्फलमित्यर्थः । *तण्डुलः पचतीति । अत्र कर्मत्वस्य संसर्गत्वेन प्रत्ययार्थत्वाभावान्न द्वितीया । चतुर्विधपदे इति । नामाख्यातोपसर्गनिपातभेदात् विशेषणसंभवात् इति श्रपयतीत्यादौ उपसर्गाणां प्रकर्षादिद्योतकत्वं प्रतिष्ठतेः इत्यत्र तु धातोर्गतिनिवृत्तिवाचकतया प्रशब्दस्यैवातिरर्थ इति क्वचिद्वाचकत्वमपीत्यर्थः । यद्यप्युपसर्गाणां द्योतकत्वं धातूनां वाचकत्वं मित्यत्र न लाघवम्, तथाप्येकस्य उपसर्गस्य धातुभेदेनार्थभेदात् क्वचिदनथं कत्वाद्यद्योतकत्वमेव । अत एवोक्तं हरिणा-स्थादिभिः केवलैर्यत्र गमनादि न गम्यते । तत्रानुमानाद्विविधा तद्धर्मा प्रादिरुच्यते इति प्रतिष्ठते इत्यत्र “धातूनामनेकार्थत्वाद्गतिरेवार्थः । तत्रापि प्रशब्दस्य द्योतकत्वमनुमानादिति तदर्थः । इति निपातार्थविचारः ।
XXX
अथ त्वादिभावप्रत्ययार्थनिर्णयः ।
પ
1
*मीमांसकादीनां भ्रममिति । कृत्तद्धितेत्यादिवार्त्तिकं भवतीति इत्याकारकमीमांसाभ्रममित्यर्थः । *सम्बन्धविशिष्ट इति । 'राजपुरुष' इतिप्रयोगे राजसम्बधस्यैव निमित्ततया तस्यैव त्वप्रत्ययार्थत्वौचित्यात् । *पक्षभेदेनेति । संसर्गपक्षे इत्यर्थः । * औपगवत्वमिति । अत्रापत्यार्थकप्रत्ययार्थस्य " गोत्रं च चरणैरसह" इति जातिवाचितया इदमाद्यर्थस्यादिभ उदात्त इत्यर्थः । *जातिविशेषेणेति । कृष्णसर्पसपर्णादिशब्दानां जात्यवच्छिन्नद्रव्यवाचियाया जातावेव प्रत्यय इत्यर्थः । रूढिः कृष्णसर्पादौ गुणस्यैवेति नतु सम्बन्धस्येत्यर्थः । गुणगुणिनोः सोऽयमिति प्रतीत्या भेदसम्बन्धेन सम्बन्धापेक्षेति भेदपक्षे न सम्भवतीति । वस्तुतस्तु राजपुरुषत्वमित्यन राजपुरुषसम्बन्धस्यैव शक्यतावाच्छेदकत्वमनुभवसिद्धम् । पाचकराजपुरुषादिशब्दप्रयोगे पाकराजसम्बन्धावछिन्नस्यैव पुरुषस्य प्रतीत्या सम्बन्धस्यैव निमित्तत्वेन तस्यैव त्वप्रत्ययार्थत्वाचित्यात् । सतो भावः सचेति । अत्र सदसतोः सम्बन्धस्याव्यभिचाराज्जातिरेव भावप्रत्ययार्थः । *सम्बन्धिभेदादिति ।
अयम्भावः- परब्रह्मस्वभावा महासत्ताख्या जातिरेकैव । सा च सम्बन्धिनां गवादीनां भेदाद्भिद्यमाना उपचारितभेदाद् गोत्वादिजातिरुच्यते, तस्यां ब्रह्मसत्तायामेव सर्वे शब्दा वाचकत्वेन व्यवस्थिता । अभावस्यापि बुध्याकारेणानुगमान्महासत्तया न वियोग: । अत एव प्रातिपदिकार्थः सत्तेत्युच्यते । एवं क्रियास्वपि उपाधिभेदेन भिन्ना महासत्तैव धातुवाच्या, सा च जातिः सिद्धत्वसाध्यत्वरूपोपाधिभिरपि भिद्यते । सैव सत्ता महानित्युच्यते । यतोऽखिलविवर्त्तः यस्य गुणस्येति गुणशब्देन धर्ममात्रमुच्यते । लोके गुणशब्देन परतन्त्र उच्यते । एवं च जात्यादीनामपि गुणत्वात्त्वप्रत्ययात्वसिद्धः । अत एवोक्तं भाष्यकृता "अन्यो हि वीरत्वं गुणः, अन्यः पुरुषत्वम्" इति । इति भावप्रत्ययार्थविचारः ।
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502