Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
समासशक्तिनिर्णयः।
પૂa अथ समासशक्तिनिर्णयः।। , *भेदान्योन्याभाव इति । अयम्भावः-भेदः सामर्थ्य मिति पक्षे भेदवदर्थप्रतिपादकत्वमेवैकार्थीभावसामर्थ्यम् । संसर्गस्तु-भेदाविनाभूतत्वादनुमेयः । स्वत्वसमानाधिकरणो राजमिन्नस्वामिकभेदो हि राजसंसर्गव्याप्यः । तथा चानुमीयमानसंसर्गको यो भेदस्तद्वतोऽर्थस्य प्रतिपादनमेकार्थीभावः । *उत्तरकालमिति । पुरुषगतराजसम्ब. न्धस्य राजभिन्नस्वामिकभेदव्याप्यत्वादिति भावः । . *विनिगमनाविरहमिति । उक्तरीत्योभयोः समनियततया विनिगमनाविरहायोगपग्रेनोपस्थितयोर्द्वयोरपि वाच्यत्वमिति भावः । *अस्वामिकेऽपीति । केवलभेदपक्षे इत्यादिभेदसंसर्गो द्वन्द्वेऽपि साहित्यविशेषस्यैव प्रतीतेरिति वदन्ति । *राज्ञः पदार्थैकदे. शत्वादिति । लक्षणया राजसम्बन्धिनः पदार्थत्वात् । रथकारेति । क्षत्रियाद्वैश्यायामुत्पादितो माहिष्यः, वैश्याच्छुद्रायां करिणो भवन्ति । माहिष्यात्करिण्यामुत्पन्नोरथकारः। *अर्थवत्वाभावेनेति । वृत्योपस्थापकत्वाभावेनेत्यर्थः । *समवायेनेति*। पदानां समवायसम्बन्धेनाकाशवृत्तेः । श्वषट्कर्तुः प्रथमभक्ष इति । अत्र वषट्कर्तुर्भक्षणं प्र. थममिति नार्थः, एकपदोपात्तयोर्भक्षणप्राथम्ययोः परस्परमुद्देश्यविधेयभावासम्भवात् । किन्तु प्रथमभक्ष इति समुदितस्यैव विधिः प्राथम्यस्येत्यर्थालाभः । एवं च यत्रैकस्मिन्पात्रे वषट्कारनिमित्तकं प्राप्त समाख्यायान्यस्य च सोमभक्षणं प्राप्तम् , तत्र प्रथम वषट्कत्तैव भक्षयेत् । तथा च जैमिनिकात्यायनाभ्यां सूत्रितम्-“वषट्कारोऽत्र भक्षयेत्" इति । *अङ्गैः स्विष्टकृतमिति। पशुयोगे हृदयस्याग्रे वपति, अथ जिह्वायाः, अथ वक्षस इत्येवमादिना एकादशानामङ्गानामवदानेन यागमभिधाय 'अङ्गैः स्विष्टकृतं यजति इत्यु. क्तम्, तत्र प्रकृतेनैव येन केनचिदंगेन त्रिस्विष्टकृदिष्टव्य इति नार्थः। *अङ्गैरिति । समस्तस्यैकपदत्वेनोद्देश्यविधेयभावासम्भवात् । किन्तु 'नाशयोरवपति शिरस' इत्यनेनाङ्गत्रयस्यावदाननिषेधात्तैरेवांगैः स्विष्टकृद् यष्टव्य इति । निषादस्थपतीति । स्थपतिः स्वामीनिषादश्चासौ स्थपतिश्चेति कर्मधारयः; न षष्ठीतत्पुरुषः । पूर्वपदस्य सम्बन्धिनि लक्षणाप्रसङ्गात् ।
___ इति समासशक्तिनिरूपणम् ।
अथ शक्तिनिरूपणम् । .. *दृष्टत्वादिति । प्रवाहत्वेन रूपेण तीरस्यापि बोधः । प्रवाहत्वमेव च तत्रारोपि. तम् । अत एव गङ्गाशब्दस्य प्रवाहे प्रसिद्धत्वान्मुख्यत्वं तीरेत्वप्रसिद्धत्वाद्गौणत्वम् । *नचाव्यवहितोत्तरत्वेतिभाशक्तिजन्योपस्थित्यव्यवहितोत्तरशाब्दबोधं प्रति शक्तिजन्योपस्थितिःकारणमितिरीत्येत्यर्थः । *हस्तिपको-हस्तिनि यन्ता, साधुशब्दमनुमाय= स्मृत्वा ।तेसाधुष्विति । असाधुशब्दविषये ते साधव एव स्मृताः सन्तः बोधका इत्यर्थः। ग्रन्थकृतामसाधुशब्दानां लिपिस्थानीयत्वेन व्याख्यातत्वात् । 'असाधुरनुमानेनाइ. त्यक्षरमर्यादया तु असाधूनामेव परम्परया बोधकत्वं लभ्यते। एवं च ते असाधवःसाधुष्व. नुमानेन साधुस्मरणद्वारेति व्याख्येयम् । *तादात्म्यमुपगम्येवेति । अपभ्रंशसाधुशब्दैरभेदेष्विवापन्नाः शब्दार्थस्य प्रकाशका इत्यर्थः। *न शिष्टैरिति । इवशब्दो भिन्नक्रमः, साधवः पाया इव साधवः शिष्टैर्नानुगम्यन्त इत्यर्थः। *नयत इति । नापि स्मृतिशा।
Loading... Page Navigation 1 ... 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502