Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 480
________________ सुबर्थनिर्णयः । ४५१ *आत्मा तु*-स्वरूपं तु। *न विकल्प्यते*-न भिद्यते । पररूपेण =परकीयक्रियारूपेण । *तम आसीदिति* । अन्धेन तमसा निगूढमप्रज्ञातमने सृष्टः प्राक् तदा हिन किंचिदासीत् , तुच्छेन-सूक्ष्मीभूतेन घटमण्डपस्थानीयेन कर्मणा यदपिहितमिव जग. दासीत् । आसमन्ताद्भवतीत्याभु अज्ञानं तमः इति श्रुत्यर्थः । *अद्यतनानद्यतनेति । अद्य भवोऽद्यतनः, अत्र समुदायावयवभेदपरिकल्पनया एकस्यैव कालस्याधाराधेयपदेन निर्देशः । अत एवोक्तं हरिणा काल कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ॥ इति । ___ *इत्येतादृशं विषयतेति । एतादृशानुव्यवसायनिरूपिता या विषयता तन्निरूपकं यज्ञानं तदविषयत्वमित्यर्थः । *पूर्वापरीभूतावयवमिति* । पिण्डीभावासम्भवबोधज्ञा या पिण्डीभूता या इति । अवयवानां क्षणिकत्वे पिण्डीभावस्यैवासम्भवादिति भावः। *क्रियाविष्टानाम्*-क्रियाविशिष्टानाम् । वदन्तीत्यस्वरसस्तु क्रियाप्रत्यक्षं विना तद्विशिष्टसाधनस्यापि प्रत्यक्षासम्भव इति । *तत्वं चेति*। *वर्त्तमानः प्रागभावः* = उत्तरसमयप्रागभावः। तत्प्रतियोगी उत्तरसमयः । *न्यायव्युत्पादनार्थम् = प्रवर्तनाभेदज्ञानार्थम् । *प्रपञ्चार्थम्* --शिष्यबुद्धिवैशिष्यार्थम् । *अर्थान्तरेऽपीति । तद्यथा "स्वर्गकामो यजेत" इत्यादि उपदेशोऽनेन पथा यात्वित्या. दिश्य विधावन्तर्भवति । कुरुष्व यथाहितमिति । प्रारब्धं कुर्विति चामन्त्रणं कामचारेण करणे प्रतिबन्धकशङ्का निवर्त्तनं स्वामन्त्रणम् । इति लकारार्थनिर्णयः ।। अथ सुबर्थनिर्णयः। *सुपाकर्मादयोऽप्यर्था इति*। *इति भाष्यत इति । भाष्यादित्यर्थः । *इत्यापत्त. रिति । पूर्वक्रमेण जानामीत्यस्यानापत्तेरित्यर्थः । *सत्कार्य्यवादेति । कारणे सूक्ष्मरू. पेण स्थितस्याविर्भाव एवोत्पत्तिः । असत एवोत्पत्तौ तु सर्वत्र सर्वमुत्पद्येतेति भावः । - ननु नाशस्यावस्तुतया कथं सत्तात्मकत्वमत आह-*तिरोभावेति । अयम्भाव:नित्या ब्रह्मात्मिका सत्ता न निरन्वयनाशसहेति । अभावो नाम न भावादव्यतिरिक्तः, किंतु सत्तैव । तिरोभूय स्वकारणेषु शक्तिरूपतया स्थिता वस्तूनां नाशः, सैवच तिरोभावावस्था । साधनसंपर्कात् क्रमवत्वेन प्रतीयमाना नश्यतीत्याख्यातेन न प्रत्याय्यते इति लब्धक्रमे इत्यनेन साध्यरूपता दर्शिता, नष्टे नश्यतीति प्रयोगश्च वारितः । *आद्यदोषेति । गच्छन्तीत्यादौ कर्तुः कर्मत्वापत्तिरूपेत्यर्थः। द्वितीयेति । प्रयागात्का. शीमित्यत्रत्येत्यर्थः । औदासीन्येन प्राप्यं तृणादि, अनीप्सितं विषादि, संज्ञान्तरैरना. ख्यातम् "अकथितं च इति विहितं अन्यपूर्वकम् “अधिशीस्थासां कर्म" इत्यादिना विहितम् । असजायते इति तार्किकरीत्येदम् । असदुत्पत्तेनिराकृतत्वादाह-*सहेति। *धातुनोक्तेति । धातुनोक्ता क्रिया यस्य तस्मिन् कारके नित्यं कर्त्ततेष्यते इत्यर्थः । *कर्तृकर्मव्यपदेशाच्चेति । “मनोमयः प्राणशरीर उपास्य” इति श्रुतं मनोमयत्वादिगुणकं ब्रह्मैव, नतु जीव इति पूर्वसूत्रे प्रतिपादितम् । तत्रैव हेत्वन्तरं प्राह-*कर्मकत्रित्यादि। मनोमयादिशब्देन जीवस्यैव ग्रहणे तस्यैव कर्मत्वं कर्तत्वं विरुद्ध स्यातामित्यर्थः । तस्य जीवस्य वाक्यशेषमाह-*एतमिति । इतः अस्मात् लोकात् प्रेत्य गत्वा एतं मनोमयं अभिसम्भावितास्मि प्राप्तास्मीति श्रुत्यर्थः। *कर्ता शास्त्रार्थवत्वादिति ।

Loading...

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502