Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४५४
वैयाकरणभूषणव्याख्यायाम् । स्त्रेणासाधवो व्युत्पाद्यन्ते इत्यर्थः । *एवं चेति । शिक्ष्यमाणो बालः अव्यक्त भाषते, साधुविदां व्यक्ते निश्चयो भवतीत्यर्थः । तेन चापभ्रंशेन साधुव्यवहितः = साधुद्वारकः । *शक्तिभ्रमादिति । अशक्त्या गगरीशब्देनोच्चारित इत्याद्यपुरुषेण ज्ञाते ततो द्वितीयपुरुषस्य गगरीशब्दे एव बोधक इति भ्रम इत्यर्थः । *भ्रमासम्भवाचेति । घटशब्दगग. रीशब्दयोर्विजातीयानुपूर्वीकतया भ्रमहेतोः साधारणधर्मदर्शनस्याभावादिति भावः । *पारम्पर्यादिति । इह स्त्रीशूद्रबालादिभिः प्रयुज्यमाना अपभ्रंशा रूढिमागतास्तै रेव प्रसिद्धतरो व्यवहारः सत्यपि साधुप्रयोगे तेषामपभ्रंशैरेवार्थनिर्णयेनासाधूनामिव वा. चकत्वं प्रत्यक्षं मन्यन्ते । साधुत्वानुमानपक्षे व्यवस्थापयन्तीत्यर्थः । *दैवीति । व्यवकीर्णा अपभ्रंशैः संकीर्णा पुराकल्पे दैवीवागसंकीर्णाऽऽसीत्तदानीं तेषां साधव एव रू. ढिमुपागताः। गम्यागम्यादिव्यवस्था च साध्वसाधुव्यवस्थाविशिष्टैनित्यमविच्छेदेन स्मयंते। *अनित्यदर्शिनामिति । ये साधूनां धर्महेतुत्वं न प्रतिपद्यन्ते तेषामित्यर्थः । *सम्बन्धिशब्देति । सम्बन्धशब्दवाच्यः सम्बन्धो योग्यतैव कथमिदं ज्ञायते तत्राह*योग्यताम्प्रतीति । लक्षणेऽर्थे तृतीयाः योग्यतावशादेवं ज्ञायते इत्यर्थः । अयं शब्द एतदर्थयोग्य इति व्यवहारात् योग्यतैव शब्दार्थयोः सम्बन्धः इति भावः । ग्रन्थकारस्त्वन्यथा व्याचष्टे-सम्बन्धो विषय इति । सम्बन्धशब्दे विषयीभूतो यः सम्बन्ध. स्तद्वयवहारात् अपशब्द एतदर्थसम्बन्धवानिति व्यवहारादिति यावत्। *एवम् - योग्यताशब्देन । *योग्यताव्यवहारात्*। अयमेतयोग्यतावानिति व्यवहारादिति भावः । __ननु योग्यताया एव सम्बन्धत्वे संकेतस्य कः उपयोग इत्यत आह-*समयादिति । वृद्धव्यवहारपरम्परापर्यायात्स्वाभाविक्येव योग्यता।निश्चीयते । नहीयमस्य मातेति सामयिकः जन्यजनकभावः । वस्तुसिद्धस्यैव प्रतिपादनात् । अत्रेदं तत्वम्पुत्रस्य वाच्यवाचकभाव एव शब्दार्थयोः सम्बन्ध इति प्रसिद्ध्यनुसारेण योग्यतैव सम्बन्ध इत्युक्तं शाब्दिकसिद्धान्तेन । अनवयवमेकं स्फोटात्मकं वाक्यं प्रतिभावा. क्यार्थः । सोऽयमित्यध्यासश्च शब्दार्थयोः सम्बन्ध इति स्पष्टं वाक्यपदीयादौ । ता. किंकादिनये तु संकेतलक्षण एव शब्दार्थयोः सम्बन्ध इति । इदं तु बोध्यम्-वृत्त्या पदजन्यपदार्थोपस्थितिः शाब्दबोधे कारणमित्यत्र पदशब्दो वाचकमात्रपरः, असाधुशब्दादपि बोधोदयात् । तार्किकाणां मते शक्तं पदं गङ्गापदं तीरे लाक्षणिकमिति व्यवहारः परस्परविरुद्धः । यथा हि मार्गोपदेशादावरण्यवासिनामाप्तत्वम्, तथा घटादौ गगरीत्यादिशब्दप्रयोक्तृणामप्यातत्वमेव । तच्छब्दजन्यबोधस्य च प्रमात्वमेव शास्त्रीयादिकार्योपयोगित्वं नास्तीत्येतावानेव तु विशेषः ।
इति शक्तिनिर्णयः ।
अथ नअर्थनिर्णयः। *अन्यथा*-सर्वभिन्न इत्यर्थे *सा*-सर्वनामता । *तस्य*-नअर्थस्य । *यत्विति । भ्रान्त्या क्षत्रिये व्यवसितो ब्राह्मणार्थो निषिध्यत इति तु भाष्याशयो वर्णितो हर्यादिभिः । विशेषणमितीति । तथा चाभावप्रतियोगिघटकर्त्तका सत्तेति बोध इति भावः।
इति नअर्थनिर्णयः ।
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502