Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 481
________________ ४५२ याणां विज्ञाननोभयथेति । आमादाखितो नान्यथा न प्रतिपत्ति वैयाकरणभूषणव्याख्यायाम् । आत्मैव कर्ता न सांख्याभिमतमन्तःकरणं "यजेत स्वर्गकाम' इत्यादौ शास्त्रार्थस्यात्मन्येव सम्भवादिति सूत्रार्थः । *शक्तिविपर्ययादिति । अन्तःकरणस्य कर्त्तत्वेऽधिकरणशक्तिर्न स्यादिति सूत्रार्थः । *तदेतेषामिति । *प्राणानामिति-प्राणानां इन्द्रि. याणां विज्ञानेन बुद्ध्या विज्ञानशक्तिमादाय ग्रहणशक्तिमादाय स्वापे जीव उदयमेतीति श्रुत्यर्थः । श्यथा च तक्षोभयथेति । आत्मनः कर्त्तत्वेऽपि न सर्वदा दुःखित्वादिकम् , यथा हि तक्षा वास्यादिहस्त एव व्यापारकरणाद्दुःखितो नान्यथा, एवमात्मापीति सूत्रार्थः। *बुद्धिकृतमपादानत्वमिति । रूपे विभागरूपगुणासम्भवात् न प्रतिपत्तिरिति अध्वर्युणा दत्तं दण्डं यजमानः सोमक्रयपर्यंतं धारयतीति उपयुक्तत्वाद्दण्डप्रदान प्रतिपत्तिकमेति पूर्वपक्षः। प्रतिपत्तिर्नाम उपयुक्तस्यादृष्टार्थ आदरः। यथा राज्ञा चर्वितस्य ताम्बूलस्य सौपणेयवत्तद्ग्रहे ग्रहः । अथ कमेंति* । मैत्रावरणो हि दण्डमवष्टभ्य प्रैषाननुवक्ष्यतीति उपयोक्ष्यमाणत्वात् । तथा च श्रूयते दण्डी प्रैषान्वाहेति नियमः। प्रकृतेषु वेति “कर्मण्येव द्वितीया" इत्यादिनियमेषु कृतान्तःकरणादीनेव व्यावर्त्तयति, नत्ववयवार्थमित्यर्थः। इति सुबर्थनिर्णयः। अथ नामार्थनिर्णयः। *स्वसमवेतेति । स्वं व्यक्तिः तत्समवेत सामान्यं तदाश्रयत्वं व्यक्त्यतरे । *नागृहीतेति । "नागृहीतविशेषणाबुद्धिर्विशेष्यमुपसंक्रामति" इति न्यायः । *उपपद्यते इति । लक्षणया व्यक्तेरपि प्रकृत्यर्थत्वात् अकारणत्वेऽपि दण्डत्वादेरलक्ष्यत्वेऽपि तीरत्वादेः छागो वेति “अग्नीषोमीयं पशुमालभेत" इत्यत्र पशुः छाग एव । “अग्नये छागस्य" इति मन्त्रे छागस्य श्रुतत्वादिति सूत्रार्थः । *अनुविद्धमिवेति । सर्वे ज्ञान शब्देनानुविद्धमिव भासते इति योजना । सोऽपि प्रातिपादिकार्थ इति । अत एव "ओमित्येकाक्षरं ब्रह्म "रामेति द्वयक्षरं नाम मानभङ्गः पिनाकिनः" इत्यादौ शब्दस्य बोधः। शब्दार्थयोस्तादात्म्यमित्यस्यायमेवाशयः। घटादिशब्दानामथें स्वशब्देऽपि प्रयोगेण शब्दार्थयोरात्यन्तिकविवेकस्य चाग्रहात् । स च शब्दः "अग्नेढ इत्यादौ विशेष्यतया प्रतीयते, नह्यनियमानाशक्तिवंचन इति नापि उत्पादयितुं शक्यते । 'नल आसीद' इत्यस्य तु नलशब्दवानन्य आसीदित्येवं शब्दप्रकारको बोधः । अत एव देवदत्तःअयमेव भवतीत्यादौ देवदत्तशब्दवाच्योऽयमेवेत्यर्थः। किञ्च शब्दस्यावाच्यत्वे वाच्यत्वं केवलान्वयीति तार्किकप्रवादासंगतिः । *शक्यभावेनेति । अनुकरणानां साधुत्वेऽपि शक्तित्वाभावादन लक्षणा न सम्भवतीत्यर्थः । *तदाशब्दोऽपीति । अनुकार्यमपीत्यर्थः। अन्यभेदपक्षे स्वस्यैव वाच्यवाचकभावासंभव इत्यत आह*अभेद इति । *अतिप्रसङ्गवारणायेति । घटपदात्समवायेनोपस्थितस्याकाशस्य बोधवारणायेत्यर्थः । *ग्राह्यत्वमिति । यथा घटादिकं प्रकाशयन् प्रदीपः स्वात्मानमपि प्रकाशयति । इति नामार्थनिर्णयः।

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502