Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
VY
वयाकरणभूषणव्याख्यायाम् ।
ज्योतिष्टोमे श्रूयते रथन्तरमुत्तरयोर्गायतीति ऋचाङ्गानुविशेषो रथन्तरं तत्र "न अभित्वाशूरनो नुमः” इति ऋक् "रथन्तरं साम्नो योनिस्तदुत्तरं चत्वासिद्धि हवामह" इत्यादिका ऋचस्सन्ति । तत्र रथन्तरं साम गेयम् । उत्तराशब्दस्य संज्ञाशब्दतया उत्तरासंज्ञकग्रन्थे पठ्यमानकत्वेन रथन्तरं गेयं उत्तराग्रन्थे हि सर्वेषां साम्नां योनिमुत्तरा. ऋचः विशिष्य सन्तीति सिद्धान्तः । *तद्वयतिरेकेण* । क्रियाव्यतिरेकेण । आहुरित्यस्वरसस्तु क्रियारहितमपि त्वया एधितव्यमित्यादि 'वाक्यं स्पष्टमेव । तदुक्तं हरिणा
___ वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ॥ इति गर्भितक्रियं पिण्डीमित्येतदपि वाक्यमिति तदर्थः । इति महानसवदिति । अत्र वृत्यर्थस्य महानससादृश्यस्य पर्वतेऽन्वयः । स चायुक्तः क्रियासादृश्ये एव वतिविधानादिति भावः । अत एव भवितुमर्हतीति अत्राध्याहियते इति प्रामाणिकाः । वस्तुतस्तु "तन्त्र तस्येव" इति सुत्रं क्रियाभावेऽपि वतिविधानार्थमिति ध्येयम् । *स्पृहि. कल्पनेति । पुष्पेभ्यः स्पृहयति इति पदाध्याहारोऽपि तत्र व्यर्थः स्यादित्यर्थः । *कृतपूर्वीति । अत्र कर्मणोऽविवक्षया भाषे क्तः । कृतं पूर्वमनेनेति विग्रहः । पश्चात्कटादि. कर्मयोगः । आहुरित्यस्वरसस्तु "द्विर्वचनेऽचि इतिनिर्देशादेव साध्यावस्थक्रियाया अपिग्रहणम् । “संख्यायाः क्रियाभ्यावृत्ति" इतिसूत्रे क्रियाग्रहणं तूत्तरार्थमिति ।
परे तु भोक्तुं गत इत्याद्यसाध्वेव । अत एव "उपपदमति” इति सूत्रे अतिङ्ग्रहणस्य क्रियावाचिनि लक्षणया कारको गत इत्यत्र समासनिषेधः फलमित्युक्तो नैतक्रियावाचीति उक्तं भाष्ये इत्याहुः । *भेद्यभेदकेति । विशेष्यविशेषणयोः परस्परसम्बद्धयोर्बोधे यादृशानुपूर्त्या साधुत्वं सूत्रकारादिभिरुक्तं स तत्र साधुः । बोधस्त्व. साधुशब्दादपि जायते एवेत्यर्थः। *श्रुत्या-आख्यातश्रुत्या। प्रकरणात् तत्र तु प्र. करणपाठात् , क्रत्वर्थत्वे सति अनृतवदने क्रतोर्नेगुण्यम् । पुरुषार्थत्वे तु पुरुषस्य प्रत्य. वायः। *जाभ्यमान:* =जम्भया विदारितमुखः। *अत्र विधिवदिति । यथा वं मन्त्रप्रकरणात् क्रत्वङ्ग तथेत्यर्थः।।
इति धात्वाख्यातार्थनिर्णयः ।
अथ लकारार्थनिर्णयः। अत्र केचित्कालं क्रियात्मकमाहुः। अपरे क्षणसमूहमाहुः । तन्त्रान्तरप्रणेतारस्त्व. खण्डमतिरिक्तं कालमाहुस्तन्निखिलनयेऽपि वर्तमानकालस्य प्रत्यक्षेण निश्चेतुमशक्यत्वादनुमानगम्यत्वमाह-*प्रारब्धापरिसमाप्तत्वमिति । अधिश्रयणान्ते इत्येतत्प
य॑न्तं मध्ये इत्यस्य विशेषणम् । *तदस्ति=वर्तमानत्वमस्ति। एतच्च लक्षण क्रियाकालयोरक्यमतेन, तयोर्भदे तु प्रारब्धापरिसमाप्तक्रियोपलक्षितत्वं वर्तमानत्व मिति बोध्यम् । 'क्रियाभेदाय कालस्तु' इति भाष्ये कालस्य क्रियाभेदकत्वलाभात्।
ननु व्यापारसमुदायः क्रिया । आत्मास्तीत्यादौ च स्थितिरूपो क्रिया एकविधा। यथाहि पच्यादौ फूत्कारादीनामवयवानां वैलक्ष्यण्यात्तत्समुदायस्य भवति क्रियात्वम्। तथात्रावयववैलक्षण्याभावेन तदसम्भव इत्याशङ्याह-*तत्तत्कालिकानामिति । तेषां क्रिया हि विलक्षणावयवत्वेनानुमीयमाना तत्साहचर्य्यात्पर्वतादिक्रियाणामपि वर्तमानत्वमितिभावः । तिष्ठतेरधिकरणमिति । क्रियायाः कालत्वमभिप्रेत्येदम् ।
Loading... Page Navigation 1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502