Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४४०
यैयाकरणभूषणव्याख्यायाम् । व्यापारवाचित्वलाभादिति भावः । *वैयापत्येति । अत एव तद्विरोधः । *सकलव्यापारेति । पराभिमतभावनारूपव्यापारस्यापि लाभादित्यर्थः। *मीमांसकोक्तं बाधकमिति* । “प्रत्ययार्थः प्रधानम्" इति न्यायविरोधरूपमित्यर्थः । *अरुणाधिकरणेति । "अरुणया एकहायन्या पिङ्गाक्ष्या गवा सोमं क्रीणाति"इत्यत्र कारकाणां क्रिययैवान्वया. दरुणया क्रीणाति एकहायन्या क्रीणातीत्यादिक्रमेण पृथगेवान्वयः । पश्चात् या अरूणा सा एकहायनीत्यादिको मानसोऽभेदबोधः । *वक्ष्यमाणेति* । क्रियायोग एव कारकसंज्ञाविधानात् । *सम्बन्धमात्रमिति । भावार्थाधिकरणे "ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्युदाहृत्य भट्टपादैः सिद्धान्तितमाख्यातार्थभावनायां स्वर्गकामपदोपात्तः स्वर्ग एव फलत्वेन संबध्यते, न तु धात्वर्थो यागः । तस्यापुण्यरूपत्वेनापुरुषार्थत्वात् । नच स्वर्गस्य भिन्नवाक्योपात्तत्वादाख्यातरूपसमानरूपपदश्रुतेरेव चरितार्थत्वात् । सर्वत्रैव हि धात्वर्थभावनया सम्बन्धसामान्यमेव श्रुत्या प्रत्याय्यते, । तस्य सम्बन्धसामान्यस्य एकोऽशस्सम्बन्धविशेषस्तस्य निवेशे बोधने तु श्रुतेः सामर्थ्य नास्ति । यथा पचतीत्यत्र पाकसम्बन्धिनी भावनेत्येव श्रौतोऽर्थः। पाकानकलाभावनेति त पश्चान्मोनसोबोधः। अत एव 'दधना जुहोति' इत्यत्र दधि जहोतीत्यर्थः । ज्योतिष्टोमेनेत्यत्र तु यागस्य मानसः पाटिकः करणत्वबोधः । *लडाद्यन्ते इति । लिङ्ग लोट तव्यादिस्थले एव प्रवर्तकत्वादिप्रतीत्या तेषामेव भावना वाच्येति भावः । विवियमाणस्यापीति*। उक्तविवरणाद्वावनाया वाच्यत्वमावश्यकम् । तत्र चाख्यातस्य कर्तृवाचकत्वापरिशेषाद्धातोरेवार्थो भावनेति भावः । __ननु यदि कर्तुराख्यातार्थत्वं स्यात्तदैवोक्तयुक्त्या भावनाधात्वर्थः स्यात् , तदेव तु न। कर्तरि शक्तौ अनन्तव्यापाररूपकर्तृत्वस्य शक्यतावच्छेदकत्वे गौरवादित्याशङ्कते. *नचैवमिति* । असिद्धस्यापि यागस्य स्वकरणनिष्पन्नस्य करणत्वसम्भवात् सोमा. दीनां तु साक्षात् करणत्वं न सम्भवति, नहि क्रियामन्तरेण काष्ठादिमात्रात्पाक उत्पद्यते इति । *शक्यतावच्छेदकरूपेणैवेति । तीरे प्रवाहत्वमारोप्य प्रवाहत्वेनैव रूपेण तीरबोधात् शैत्यपावनत्वादीनां प्रतीतिरिति भावः । *न नैयायिकादीनामिति । 'कचतस्त्रस्यति वदनम्' इत्यत्र कचत्वादिना बोधे राहुत्वादिप्रकारकबोधाभावात् त्रासकत्वानापत्तेरिति भावः । *विपर्ययेणापि व्युत्पन्नानामिति । व्याकरणाभिज्ञेन केनचित् द्वितीयाद्यर्थकर्मत्वादीन् कर्मत्वादिशब्दैरेव बोधयितुमिच्छता घटः कर्मत्वमित्यादिप्रयुक्तम् । प्रयोज्येन च व्याकरणलक्षणजेनार्थमनुसन्धाय घटीया कर्मतेत्याद्यर्थोऽवगतः, तस्य तद्वाक्यं साकासमेवेति भावः । एवंप्रकारिकापि व्युत्पत्तिाकरणव्युत्पत्तिमतमिव भवतीत्यभिप्रेत्य विपर्ययेणापीत्यपि शब्द उक्तः, व्याकरणव्युत्पत्तिमूलकविपरीतव्युत्पत्तिमतामित्यर्थः । *तन्निराकासमेवेति । घटीया कर्मतेति बोधे निराकाकमेवेत्यर्थः । यस्य पदस्य यत्पदव्यतिरेकप्रयुक्तान्वयः।
ननु भावकत्वं तत्पदे तत्पदवत्वमाकाक्षेति नीलपदं विनापि घटमानयेत्यादावन्वयदर्शनादभेदबोधे समानविभक्तिकत्वमेवाकाङ्क्षा, घटः कर्मत्वमित्यादावपि अभेदबोधे आकाङ्क्षाऽस्त्येव, किंतु योग्यता नास्ति । योग्यताभ्रमे त्वभेदबोधो भवत्येवेति नैयायिकवचनं न कार्यमित्याकारकं प्रचीनवैयाकरणसूत्रं व्यर्थमित्यर्थः । *एवं सत्यपि । व्युत्पत्यनुसारित्वे सत्यपि । *भाट्टरीतिरिति । कर्तादिना भावनाऽक्षिप्यते इति तदु. क्तः । *तथात्वापत्तौ* = भावनाक्षेपापत्तौ । *कर्तुंर्वाच्यत्वमिति* । कृदन्त इत्यादि उ
Loading... Page Navigation 1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502