Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 476
________________ धात्वर्थनिर्णयः। ४४७ ख्येयम् । उक्तविवरणाद्भावनाया वाच्यत्वं लब्धम् । तत्र धारणात्तस्य कर्तृवाचितया परिशेषाद्भावना धात्वर्थ इति भावः। ननु परिशेषादित्युक्तमयुक्तम् । कर्तुराख्यातार्थत्वे अनन्तव्यापाररूपकत्तत्वस्य शक्यतावच्छेदकत्वापत्तिरित्याशङते-*न चैवमिति । -*व्यापारत्वादीति । अनुकूल. व्यापारे लक्षणा । आदिना विद्यते इत्यादावाश्रयत्वादौ लक्षणा शक्यतावच्छेदकस्या. पीति आख्यातस्य कर्तरि शक्ती व्यापाररूपं कर्तृत्वं शक्यतावच्छेदकम् । तव तु लक्ष्यतावच्छेदकगौरवमित्यर्थः । *यत्न एवेति* । उक्तविवरणादाख्यातस्य यत्नोऽर्थ इत्यर्थः । नैयायिकान्निराकृत्य प्रकृतोपयोगितया मण्डनमिश्रमतं निराकरोति*किञ्चेति। तन्मते फलमात्रस्य धात्वर्थतया आख्यातार्था भावना, तथा च णिजर्थव्यापारजन्योत्पत्तिरूपफलाश्रयत्वाद्धटो भवतीत्यत्रापि द्वितीया स्यात् । तन्मते तु धात्वर्थव्यापाराश्रयत्वेन परया कर्त्तसंज्ञया कर्मसंज्ञा बाध्यत इति भावः । *भावनाया अवाच्यत्वे इति* । यत्नो धात्वर्थ इति तार्किकैकदेशिमते मण्डनमते च व्यापारस्य धात्वर्थत्वाभावात् । *अन्यतमत्वमिति* । सकर्मकधातुत्वं तत्तद्वयक्तित्वेनोपादाय एतदन्यतमत्वं सकर्मकत्वं वाच्यमित्यर्थः । *एकस्यैवेति । यथा खदधातुः स्थैर्येऽकर्मकः, हिंसायां सकर्मकः । पूर्व केवलफलवाचकत्वनिराकरणपरतया व्याख्यातमिदानी केवलव्यापारवाचकतानिराकरणपरतया व्याचष्टे-*अथ वेति । *तत्साधयन्*-वाचकत्वं साधयन् । व्यापार एवेति । फलं तु कर्मप्रत्ययार्थः । प्रत्ययार्थफलाश्रयत्वादेव च कर्मत्वमिति भावः । *भाक्त इति । भक्तिर्लक्षणा, भाक्तो गौणः । सविषयार्थकधातुयोगे विषयत्वं द्वितीयार्थः । सविषयार्थत्वं गौणसकर्मकत्वमिति ता. किकसिद्धात इति भावः । *यत्नमात्रमिति । व्यापारस्थानीयमित्यर्थः । *युक्त्यन्तरमिति। सकर्मकाकर्मकविभागोच्छेदस्य पूर्वमुक्तत्वात्तदपेक्षया युक्त्यन्तरमित्यर्थः। *सूत्रं लक्ष्यत इति । सूत्रप्रवृत्तिर्लक्ष्यते इत्यर्थः । *उपपद्यन्ते इति । कर्मावस्थायां या क्रिया सैव कर्जवस्थायां चेत्तदैव यगादयो भवन्ति। कृतिश्च न घटादिनिष्ठेति भावः । *निर्वर्त्यमिति । सुवर्ण कुण्डलं करोतीत्यत्र कुण्डलं निर्व] कर्म । सुवर्ण विकार्य्यम् । प्रकृतिपरिणाम एव विकृतिरिति मते तु कुण्डलं विकार्यमेव । तदुक्तं हरिणा सती वा विद्यमाना वा प्रकृतिः परिणामिनी। यस्य नाश्रीयते तस्य निर्वय॑त्वं प्रचक्षते ॥१॥ इति यस्य घटादेः सत्ता प्रकृतिर्मदादिः, अविद्यमाना वाशब्दे संयोगादेर्वादिना अभिनत्वेन नाश्रीयते । तस्य निर्वत्यं कर्म । अभेदेन परिणामेन बहुना तु विकार्यमिति तदर्थः । *क्रिया कृतेति । यथा हि पाकादिना तण्डुलादौ विशेषो भवति। नैवं गमनादीनां ग्रामादौ । *उपलक्षणत्वेऽपीति । संयोगोपलक्षितो व्यापारो गमधात्वर्थ इति भावः । वदन्तीत्यस्वरसस्तु तत्तत्फलबोधे तत्तद्धातुसमभिव्याहारस्य नियामकत्वान्न दोष इति । निर्विवादमिति* । सकर्मकस्थले फलस्य द्वितीयार्थत्वात् व्यर्थत्वं सम्भवति । भवतीत्यादौ च सत्तादिरूपफलवाचकत्वं धातोरेव सम्भवतीति भावः । *द्वयर्थः पचिरिति । विक्लेदनो निर्वर्तना च पचेरर्थः। तण्डुलान् विक्लेदयन् ओदनं निर्वर्त्तयतीत्यर्थात्। *न्यायविरुद्धत्वादिति* | "प्रत्ययार्थः प्रधानम् इति न्यायादाख्यातार्थ एव भावनेत्यर्थः। *स्वयुक्तेति । स्वं धातुस्तद्युक्तं यदाख्यातं तदर्थ इत्यर्थः। सकलमीमांसकैः फलव्यापारयोर्धातुवाच्यत्वं स्वीक्रियते, नतु केवलफलस्येत्यभिप्रेत्याह-*मीमांसकंमन्यमिति*। *तद्विधानलाभे इति* । कर्तृपदस्य कर्त्तत्त्वपरतया

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502