Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 474
________________ धात्वर्थनिर्णयः। .४४५ त्यनेनेति । तत एव कादिपदस्यानुवृत्तेरिति भावः । अलब्धलाभो योगः, लब्धस्य परिपालनं क्षेमः। _ ननु पाचको देवदत्त इत्यदिसामानाधिकरण्यानुरोधात् कृतां कर्त्तवाचकत्वमित्यारु. चेराह-*अपिचेति । यत्नार्थकत्ववादिनो नैयायिकान्निराकृत्य मीमांसकमतं दूषयति*मीमांसकानामिति*। *कृदादिवदिति । यथा कृदादौ भावनाऽक्षिप्यते, तथेहास्त्विति भावः । तथासति आक्षेपलभ्यत्वे सति न स्यादिति प्रत्ययार्थत्वाभावादित्यर्थः । *आ. क्षिप्तव्यक्तेरिति । जातिशक्तिवादिनामाक्षेपेण व्यक्तबोधात् । *कर्त्तरपीति । पचतीत्यस्य पाचक इति विवरणात् ततः विवरणम् । __नन्वेवं सर्वत्र विवरणस्य शक्तिग्राहकत्वोच्छेद इत्यरुचेराह-*किञ्चेति । *अभेदान्वयेति । अन्यथान्यस्मिन्नपि पचति देवदत्तः पचतीति प्रयोगापत्तेरिति भावः । *तञ्चात्र नास्तीति । कर्तवाचकत्वसाधकं सामानाधिकरण्यं नास्तीत्यर्थः। *इत्यादावपीति । तस्मानामार्थधात्वर्थयो मार्थयोश्च साक्षादभेदातिक्तसम्बन्धेनान्वयो नास्ती. त्येव परेषां नियम इति भावः। *पिङ्गाक्ष्यादीति । पिङ्गे अक्षिणी यस्या इति षष्ट्यन्तेन विग्रहे “अनेकमन्यपदार्थ” इत्यनेन षष्ठयर्थसमासविधानात्पिङ्गाक्षिसम्बन्धि इत्येवार्थः स्यादतो गवादिसामानाधिकरण्यानुरोधात्सम्बन्धाक्षिप्तसम्बन्धिसमासार्थसिद्धान्ता. सङ्गतिः।आक्षेपितं सम्बन्धिनमादायैव सामानाधिकरण्यसम्भवादिति भावः । *षष्ट्य. र्थ एवेति । अन्यपदार्थ इत्यत्र पदं सुएतिङन्तम् । पदे च प्रत्ययार्थस्य प्राधान्यादन्यविभक्त्यर्थ इति लभ्यते इति भावः । *द्रव्यानुक्तेरिति । एतच्च । उच्छेदापत्तिरित्यत्र हेतुः । *अरुण्यस्येति । तन्मते जातिरेव शब्दार्थत्वात्स्ववाक्योपात्तद्रव्ये गवि उक्तरीत्या आक्षेपेण इदं तिङो वाचकत्वाभिधानम् । *फलं प्रतीति । एतच्च कर्त्तप्रत्ययस्थले । पक्क इत्यादौ तु व्यापार प्रति फलस्यैव प्राधान्यम् । एतदर्थमेव फलव्यापा. रयोः पृथक् शक्तिरुक्ता, नतु फलावच्छिन्ने व्यापारे । *कर्तरीति* । विशेषणमित्यनुषज्यते । *समानप्रत्ययोपात्तत्वादिति* । एतेन शब्दान्तरानुसन्धानप्रयुक्तलाघवं दर्शितम् । तथाचेति । कर्ताद्युपस्थितिविषयतया कादौ, तत्र प्रकारतया संख्याबोधः । *इतराविशेषणत्वेति । इवार्थसादृश्ये चन्द्रस्य विशेषणत्वान्न तत्र संख्यान्वयः । *इदमपि-कार्यकारणभावलाघवमपि। *तच*-धातोरिति पदं च । *तत्रैव = व्यापारे एव । *तदन्वयः = कालान्वयः। *कत्तकर्मणोरेवेति । समानप्रत्ययोपात्तत्वादिति भावः । *प्रयोगापत्तिरिति । फलरूपव्यापारस्य वर्तमानत्वादिति भावः । वचनवि. रोधमुक्त्वा युक्तिविरोधमप्याह-*अपिचेति । तमित्यादि कर्माध्याहारे दोषमाह*भाष्यसिद्धेति* । भाष्यसिद्धलौकिकैकवाक्यतेत्यर्थः । “एकतिङ् वाक्यम्" इति वा. तिकं तु निघातमात्रविषयकमिति भावः। यद्यपि तिङतद्वये एकवाक्यताभावादेव निघाताप्राप्तावतिग्रहणं व्यर्थमित्युक्तं भाष्ये, तथापि पचतिभवतीत्यत्र पाको भवतीत्यर्थादेकवाक्यता भाष्ये एव स्वीकृतेति भावः। किञ्च भिन्नवाक्यतां स्वीकृत्य निर्वाहेऽपि अध्याहारस्यासार्वत्रिकतयाऽपाक्षीदू देवदत्तोऽवेहीत्यत्र कदाचित् द्वितीया. पि स्यादिति बोध्यम् । वाक्यार्थस्य कर्मत्वान्न द्वितीयेति असम्भवदुक्तिकत्वादन्यत्र निराकृतम् । अध्याहारे युक्तिविरोधमप्याह-*उत्कटेति* । 'पश्य देवदत्तो गायतिः इत्यादावस्मन्मते अध्याहारादिना निर्वाहः संभवति । तार्किकाणां तु शणु देवदत्तो गायतीत्यादावगतिरेव । फले कर्तुरन्वयवारणायाह-*भावनात्वावच्छिन्नेत्यादि ।

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502