Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 475
________________ ४४६ वैयाकरणभूषणव्याख्यायाम् । ननु नाशरूपव्यापारस्य नित्यत्वात्सर्वदा नश्यतीति प्रयोगापत्तिरत आह-*घटो नश्यतीत्यत्रापीति* । ननु नाशसामग्री नाशोत्पादको व्यापारः, तस्य घटादावभावात् घटादेः कर्त्तत्वानापत्तिरत आह-*प्रतियोगित्वसहितेति । समानदेशकालवृत्तित्वस. म्बन्धेन नाशसामग्रिविशिष्टप्रतियोगित्वमित्यर्थः । नातो मुद्गरप्रक्षेपादिरूपव्यापारमादाय देवदत्तो नश्यतीति प्रयोगः। यद्यपि प्रागभाववत् ध्वंसोऽपि कपालादिवृत्तिरेव, न घटादिवृत्तिः, तथापि प्रतियोगित्वरूपव्यापारो घटादावस्त्येव । *तदत्यये इति । सामग्रीरूपविशेषणाभावप्रयुक्त एव विशिष्टाभाव इति भावः । एवं चोक्तदोषवारणाय उत्पत्तेरप्याख्यातार्थत्वमिति तार्किकोक्तं नादर्तव्यम् । *ज्ञानेच्छादीति । अत्र फलता. घटकः सम्बन्धी विषयता । अत एव फलव्यापारयोभिन्ननिष्ठत्वात्सकर्मकत्वम् ।। ननु मनोयोगादिरूपव्यापाराभावादीश्वरो जानातीति प्रयोगानापत्तिरत आह*अन्तत आश्रयतैवेति । यद्यपि व्यापारसमुदायत्वरूपक्रियात्वमाश्रयताया न संभवतिः तथापि तत्तत्कालिकानां राज्ञां क्रिया' इत्यादि वक्ष्यमाणरीत्यात्रापि आरोपो बोध्यः । *फले तङिति* । अत्र तङ् परस्मैपदिभ्य उत्पन्न उपसर्गप्रयुक्तश्च ग्राह्यः । तेन एधते निविशते इत्यादौ नातिव्याप्तिः। यद्यपि शबाद्यभावेऽपि लिङादौ कर्तुबोधः। गच्छ इत्यादौ च तिबाद्यभावेऽपि कर्तुर्बोध इति तुल्यत्वाद्विनिगमनाविरहाच्छबादीनां वाचकत्वं संभवति, तथापि गच्छेत्यादौ 'यः शिष्यत' इति न्यायेन बोधात्तिबादीनामेव वाचकत्वम् । यद्यपि नित्यशब्ददर्शने गच्छेत्येव बोधकम् , तथापि प्रक्रियादशामादायैवात्र सर्वो व्यवहारः । यञ्चिणादीनामपि क्वचित्फलाश्रयबोधकत्वं नास्तीत्याशङ्कते-*नन्वे. वमिति*। *सामान्यविशेषज्ञानेति । तच्च 'चयस्त्विषाम्' इत्यादिनोक्तम् । *सार्वधातकेति। तेन सज्जते इत्यादेनिरासः। भावसाधारणो विधिःभावकर्मसाधारण्येन विहितः "सार्वधातुके यक्" इत्यादि । *प्राभाकरादीन्प्रति* । तन्मते फलानुकूलो व्यापारो धात्वर्थः । कृतिरूपा भावना आख्यातार्थः । साऽपि लिङादीनामेव वाच्या । तथाहि भावनानामप्रवृत्यनुकूलो व्यापारः। प्रवर्तकत्वं च लिङ् लोट् तव्यादीनामेवेति भावः । अनमीमांसकाः-धातुना सिद्धो भावो दानयागादिरुच्यते । तद्तंसाध्यत्वं तु आ. ख्यातेनोच्यते इत्याख्यातार्थो भावना । तदाहुः-धात्वर्थव्यतिरेकेण यद्यप्येषान लक्ष्यते, तथापि सर्वसाधारणरूपेणैवाभिधीयते इति यत्न एव भावना । पचतीत्यस्य पाके प. चतीतिप्रतीत्या यत्नस्य धात्वर्थत्वाभावात् रथो गच्छतीत्यादावाश्रयत्वरूपैव भावना, तस्याश्च साध्यत्वरूपत्वेन भानस्य पर्वताःसन्तीत्यादौ शाब्दिकैरपि स्वीकारादित्यन्ये। - सा चेयं सर्वाख्यातवाच्या अर्थभावनेत्युच्यते इति वदन्ति, तान् दूषयति-*व्या पारो भावनेति* । धात्वर्थस्य सिद्धरूपत्वाभावाद्व्यापार एवं भावनेति भावः । भा. वना सकर्मिकैव क्रियात्वर्मिकापीति । भेदे सत्यपि साध्यत्वाविशेषाद्भावनाव्यापारयोरभेद इति पुञ्जराजः । *अयत्नानाम् = यत्नभिन्नानाम् । भावनाशब्देन यत्नस्यैव शास्रान्तरे प्रसिद्धतया फूत्कारादिसंग्रहार्थ व्यापार इत्युक्तमिति भावः। *नचैवमि. ति* । व्यापारत्वस्योपाधित्वेन शक्यतावच्छेदकत्वासंभवात् फूत्कारत्वादीनां चाननुगतत्वात् फलानुकुलो यत्न एव धात्वर्थः । कृतित्वं शक्यतावच्छेदकमित्यर्थः । एतच्च न तेषां मतम् । व्यापारो धात्वर्थः, कृतिराख्यातार्थ इति तु तेषां सिद्धान्तः। अत एव नैयायिकमतमित्यपहाय रीतिरित्युक्तम् । नैयायिकखण्डने विवक्षिते त्वित्थं व्या.

Loading...

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502