Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 478
________________ धात्वर्थनिर्णयः । त्पत्तौ ग्रहे वेति अन्योन्याश्रयस्य दूषकत्वं च तर्कविधया । तथाहि - घटो यदि घटजन्यः स्यात्, घटाद्भिन्नः स्यादिति । एवं ज्ञप्तावपि बोध्यम् । स्थितावन्योन्याश्रयस्तु नोक्तः । व्याकरणे प्रयोजनाभावात् । *क्रियाशब्देनेति । “कर्मवत्कर्मणा तुल्यक्रियः" इत्यत्र क्रियाशब्देन फलस्यैव ग्रहणात् । *अस्त्यादावपीति । उत्पत्यनुकूलव्यापार आत्मधारणानुकूलो व्यापारश्चास्त्यादीनामर्थः । तत्र धर्मिणि उत्पाद्यत्वेन विवक्षिते सति "रोहितो लोहितादासीत्" इत्यादावुत्पत्यनुकूलव्यापारः प्रतीयते एव । *अन्यत्रेति-आत्मधारणानुकूलव्यापारार्थके घटोऽस्तीत्यादौ फलव्यापारयोः समानाधिकरणत्वाद्भावना स्फुटं न प्रतीयते इत्यर्थः । *अन्तर्भावादिति । आत्मरूपकर्मणो धात्वर्थेऽन्तर्भावादित्यर्थः । 1 : ननु घटोऽस्तीत्यादौ साध्यभावना यस्य प्रतीयते, तदानीं वा सिद्धस्य घटस्य न कर्त्तृत्वसम्भवः, निष्पन्नेन घटेन साध्यमानत्वासम्भव इति चेन्न । बौद्धघटस्य वास्य घटे स्वभेदमध्यस्योभन्त्रोपपादनात् । *भागरूपसत्वादिति । तथा च तत्रापि पृथक् शक्तिमादाय धात्वर्थस्य सिद्धत्वापत्तिरिति भावः । वस्तुतः प्रत्ययेन कर्त्राद्यभिधानात्साधनवर्तित्वमित्यर्थं इति । *यथाक्रममिति । पश्येत्यत्र साध्यरूपता धावतीत्यत्र सा न रूपतेत्यर्थः । धातुना = धातुभागेन, तथाभिधाने - साध्यत्वाभिधाने । *कर्मषष्ट्य एवेति । क्रियायोगं विना कर्मत्वासम्भवात् धातोः साध्यक्रियावाचकत्वे 'काहैः पाकः, इत्यपि स्यादिति मीमांसकैर्यदुक्तं तत्रेष्टापत्तिमाह- इष्टमेवेति* | *उपपद्यत इति । पचतीत्यत्र विक्लित्तिमुत्पादयतीत्यर्थाद् व्यापारं प्रति फलस्यापि कर्मतया तद्विशेषणे स्तोकमित्यत्र यथा द्वितीया, तथा 'स्तोकं पाक' इत्यत्रापीत्यर्थः । क्रियाविशेषणानां कर्मत्वमित्यस्य वाचनिकत्वं वदतां तार्किकादीनां तु 'ज्योतिष्टोमेन यजेत' इत्यादावपि द्वितीयापत्तिः । 'स्तोकः पाकः' इति घञन्तार्थव्यापारविशेषणत्वात्प्रथमा । प्रयोगसाधुतामात्रमस्तु इत्याशङ्कते -नचेति । *समानवाक्ये इति । 'आख्यातं सविशेषणं वाक्यम्' इति वार्त्तिककारोक्तेः सम्बोधनस्य विशेषणत्वमेव न्याय्यमिति भावः । *तत्क्रियायां विशेषणमिति । सम्बोध्यमानदेवदत्तविषया या व्रजतिक्रिया सा असम्बोध्यमानदेवदत्तविषयकव्रजतिक्रियापेक्षया भिन्नेति भावः । सिद्ध्यावर्त्तकत्वरूपं विशेषणत्वम् । तथा चैकवाक्यत्वात्पदात्परस्यामन्त्रितस्येत्यनुदात्तः । देवदत्त व्रजतीति तु नोदाहृतम् । आमन्त्रितं पूर्वमविद्यमानवद्भावेन पदात्परत्वाभावात् सूत्ररीतिमाह-इति सूत्रयतेति । अन्यथा तिङन्तद्वये एकवाक्यत्वाभावेन "अतिङ" इति निषेधवैयर्थ्यादिति भावः । भाष्यकृता तु पचतिभवतीत्यस्य पाको भवतीत्यर्थः । स्वमुखेनैवोक्तः । तदुक्तं हरिणा एकतिङ् पश्य वाक्यं तु शास्त्रे नियतलक्षणम् । तस्यातिग्रहणे नार्थो वाक्यभेदान्न विद्यते ॥ इति । बहुष्वपि तिङन्तेषु साकाङ्क्षष्वेकवाक्यता । fastfast निघातस्य प्रतिषेधस्तथार्थवान् ॥ इति च । अत एव चोक्तम् तथा तिङन्तमाहुतिङन्तस्य विशेषणम् ॥ इति । एवं च पूर्व स्वाभिमतो व्रजतीत्यत्र तत इत्यस्मात्परस्य व्रजतीत्यस्य " तिङ" इति निघातः सिद्धः । *यौगिक इति । क्रियते या सा क्रिया: संज्ञाशब्दप्राबल्यादिति दु० प० ५७

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502