Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 463
________________ ४३४ दर्पणपरीक्षासहिते भूषणसारे तस्मात् सन्त्येव वर्णाः; परन्तु न वाचकाः। गौरवात् । आकृत्य धिकरणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च । इदं हरिपदमित्यनुगतप्रतीत्या हर्युपस्थितित्वावच्छेदेन हरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया च जातिविशेषस्यावश्यकल्प्यत्वात् । ___ न च वर्णानुपूव्यैव प्रतीत्यवच्छेदकत्वयोनिर्वाहः। घटघटत्वादेरपि संयोगविशेषविशिष्टमृदाकारादिभिश्चान्यथासिद्ध्यापत्तेः । रवादिति विभावनीयम् । उपसंहरति-*तस्मादिति ॥ कत्वादिविशिष्टविषयकसा. क्षात्कारानुपपत्तिप्रमाणसद्भावादित्यर्थः ॥ *सन्त्येवेति ॥ त्वदभिमतस्फोटातिरिक्ता वर्णाः सन्त्येवेत्यर्थः ॥ *परमिति ॥ किन्त्विर्थः ॥ *गौरवादिति ॥ तत्तद्वर्णभेदभिन्नाऽनन्तशक्तिकल्पने गौरवादित्यर्थः ।। ननु तावद्वर्णगतपदत्वादिजात्यजुगतीकृतेष्वेकस्या एव शक्तेरभ्युपगमान्न नाना. त्वप्रयुक्तगौरवमत आह-*आकृत्यधिकरणेति । न्यायस्तु नामाऽर्थनिरूपणे प्रपञ्चितः । ननु तादृशजातौ मानाऽभावोऽत आह-*हरिपदमिति ॥ अनुगतधर्म विना सकलताशपदेष्वेकाकारताशप्रतीत्यनुगपत्तेरिति भावः । नन्वनुगतप्रतीतिमात्रस्य जातिसाधकत्वे विभुत्वादेरपि जातित्वापत्तिरतः करणतावच्छेदकत्वादिनैव तत्सिद्धिर्वाच्या, तदभावात् प्रकृते कथं तस्य जातित्वमत आह-*हर्युपस्थितित्वा. वच्छेदेनेति॥ कार्यतावच्छेदकप्रदर्शनमिदम् ॥ *आवश्यकेति॥ अन्यथा तावत्पदानां तत्तव्यक्तित्वेन हेतुताया व्यभिचारेणासम्भवादिति भावः ॥ *प्रतीत्यवच्छेदकत्वयो. रिति* ॥ अनुगतप्रतीत्यवच्छेदकत्वयोरित्यर्थः । *वर्णानुपूव्येति ॥ तादृशजात्य. भिव्यञ्जकत्वेनावश्यकल्प्यतयेत्यर्थः ॥ *निर्वाह इति ॥ तथाचावश्यक्लप्तनियतपूर्ववृ. त्तितावच्छेदकताकानुपूव्येवानुगतप्रतीतिकारणतावच्छेदकत्वयोः सम्भवेन तद्रूपवि. शिष्टपदोपस्थितित्वेन हेतुत्वमन्यथासिद्धिरिति भावः ॥ *अन्यथासिद्धथापत्तेरिति* ॥ न च सेष्टा, प्रत्यक्षाऽऽदिप्रमाणविरोधादिति भावः।। ननु जातेः शक्यत्वे जातित्वं शक्यतावच्छेदकं वाच्यम् । तस्य च तदितरावृत्ति परीक्षा *तस्मात्*-उक्तहेतोः । *सन्त्येव-त्वदभिमतस्फोटातिरिक्ताः सन्त्येव । *यस्तु*-किन्तु । *गौरवात् । बहूनां वाचकत्वे गौरवात्। ननु पदत्वजात्याऽनुगममात्रगौरवावकाश इत्यत आह-*आकृत्यधिकरणेति। तादृशजातिसद्भावे प्रमाणमाह--*इदमित्यादि। अनुगमप्रतीतिमात्रेण जातिसिद्धौ विभुर्विस्विति प्रतीत्या विभुत्वजातिसिद्धयापत्तिरतः साधकान्तरमाह-*हर्युक्तेति । *अवश्येति। अन्यथा तत्तदुपरि पदनिष्ठतत्तद्वयक्तित्वस्य कारणतावच्छेदकतावच्छेदकत्वे आनन्त्यव्यभिचारयोरापत्तिः स्यात् ।। ___ तादृशजात्यभिव्यञ्जकतावच्छेदकतया क्लृप्तानुपूल्यैव भवदुक्तव्यवस्था ह्यतिरिक्ता, इति जातिर्मास्त्विति शङ्कान्निराचष्टे-*न चेति । *घटत्वादेरिति । आदिना पटत्वादिपरिग्रहः । *आकारादिभिः*-अवयवसंयोगविशेषैः। परम्परासम्बन्धस्यावच्छेदकतावच्छेदकत्वप्रयुक्तगौरवन्तूभयोः सममिति भावः। ननु तत्त. ज्जातेः शक्तत्वनिष्ठन्तदितरावृत्तित्वविशिष्टसकलतदाश्रयवृत्तित्वमवच्छेदकतावच्छेदक

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502