Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 461
________________ ४३२ दर्पणपरीक्षासहिते भूषणसारे - इत्थं च पञ्चधा व्यक्तिस्फोटाः । जातिस्फोटमाहशक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् ॥ औपाधिको वा भेदोsस्तु वर्णानां तारमन्दवत् ॥७१॥ अयम्भावः - वर्णास्तावदावश्यकाः । उक्तरीत्या च सोऽयं ग. कार इतिवद्, योऽयं गकारः श्रुतः सोऽयंहकारः इत्यपि स्यात्, स्फोटस्यैकत्वात् । गकारोऽयं न हकार इत्यनापत्तेश्च । किञ्च फोटे गत्वाद्यभ्युपेयम्, न वा । आद्ये स एव गका - रोऽस्तु । वर्णनित्यतावादिभिरतिरिक्तगत्वानङ्गीकारात् । तथाचाति दर्पणः *इत्थमिति* । पूर्वोक्तप्रकारैरित्यर्थः । पञ्चधेति । वर्णपदवाक्याऽखण्डपदा - खण्डवाक्यभेदभिन्ना इत्यर्थः । क्रमप्राप्तं जातिस्फोटं निरूपयति, मूले-शक्यत्व इवेति ॥ ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्त्वात्तद्गतजातेर्वाचकत्वविचारः काकदन्तपरीक्षासमोडत आह सारे -*अयम्भाव इति ॥ हकारगकारयोरभेदे साधकमाह-स्फोटस्यैकत्वादिति*॥ तदभिन्नाभिन्नस्य तदभिन्नत्वनियमेन हकारात्मकस्फोटाभिन्नगकारे तदभेदावगाहिबुद्धेः प्रमात्वापत्तिरित्यर्थः ॥ *अनापत्तेश्चेति ॥ अभेदादेव च तादृशभेदाऽवगाहिबुद्धेः प्रमात्वानुपपत्तेरित्यर्थः । ननु वर्णात्मकस्फोटस्यैकत्वेऽपि गत्वादिविरुद्धधर्माऽध्यासमूलक भेदप्रतीतेर्नाऽनुपपत्तिः । प्रामाण्यं तु तस्या वणक्यवादिमते दूरापास्तमेवेत्यत आह-किञ्चेति* ॥ उपाधित्वाभिमतगत्वादीत्यर्थः । *आद्ये* - स्फोटे गत्वाऽभ्युपगमपक्षे ॥ *तदेव* त्वमेव । ननु गत्वादेर्वर्णधर्मतया भेदेन कथं तस्य तदात्मकत्वमत आह-वर्णनित्यतावादिभिरिति ॥ मीमांसकादिभिरित्यर्थः ॥ *अतिरिक्तेति ॥ धर्मधर्मिणोर 1 परीक्षा *इत्थमिति* । पूर्वोक्तैः प्रकारैः । जातीस्फोटवादिनाम्मतमुपस्थापयति-*जातीति* | *जातेः * - अर्थशब्दगतजातेः । लाघवमिति । व्यक्तीनाम्बाहुल्याद्वाच्यत्ववाचकत्वकल्पनापेक्षया जातेस्तथात्वे तासामेकत्वाल्लाघवमित्यर्थः । ननूक्तरीत्या स्फोटातिरिक्तवर्णानामसत्वाद्गतो जातेर्वाचकत्वविचारो गगनकुसुमायमान इत्याशङ्कामपनेतुं स्फोट एव व्यक्तिरूपस्तावन्नाङ्गीकार्य इति प्रतिपादयति-अयम्भाव इति । *इत्यपि स्यादिति । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति न्यायात्स्यादित्यर्थः । ननु स्फोटस्यैकत्वेऽपि कत्वगत्वादिविरुद्धधर्माध्यासमूलकभेदानुभवेन नोकापत्तिरत आह—*किञ्चेति* | *आद्ये* — गत्वाभ्युपगमपक्षे । *तदेव*गत्वमेव 1 ननु गत्वादेर्वर्णधर्मत्वेन कथन्तस्याश्रयाभेदं वदसीत्यत आह*वर्णेति । वर्णानान्नित्यत्वे तेषामेकत्वादने कसमवेतत्वासम्भवेन नातिरिक्ता गत्वादिजातिरिति भावः । *अतिरिक्तेति* । कत्वगत्वाद्यपेक्षयेत्यादिः ।

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502