Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 462
________________ जातिस्फोटनिर्णयः । ४३३ रिक्तस्फोटकल्पन एव गौरवम् । अन्त्ये गकारादिप्रतीतिविरोधः । वायुसंयोगवृत्ति, ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्यय इति चेद् ? न । प्रतीतेर्विना बाधके भ्रमत्वासम्भवात् । अस्तु वा वायुसंयोग एव गकारोऽपि । तस्यातीन्द्रियत्वं दोष इति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन । दर्पणः भेदाभ्युपगमादित्यर्थः ॥ *गौरवमिति ॥ गकारादिप्रतीतीनां गत्वादिविशिष्टगकारादिविषयकत्वेनोपपत्तिसम्भवादिति भावः । अन्त्ये स्फोटे गत्वाद्यनभ्युपगमकल्पे इत्यर्थः । *विरोध इति । गादिप्रतीत्यनुपपत्तिरित्यर्थः । गत्वस्यान्यधर्मस्य स्फोटावृत्तित्वेन तद्विशिष्टविषयकप्रतीत्यनुपपत्तिरिति भावः ॥ *वायुसंयोगवृत्तीति ॥ स्वमते ध्वनिवृत्तीति, मतान्तरे पूर्वोक्तरीत्या तादृशवैजात्यारोपेण प्रतीतेः सूपपादत्वादाह - *आरोप्येति* ॥ *भ्रमत्वायोगादिति ॥ साक्षात्सम्बन्धेन प्रमात्वोपपत्तावारोपितसम्बन्धे तदुपपन्नत्वे प्रमाणाभावादिति भावः । नन्वतिरिक्तानेकवर्णकल्पनापेक्षया तादृशप्रतीतीनां भ्रमत्वमेव न्याय्यमत आह*अस्तु वेति ॥ तथाच तावतैव प्रतीतेः प्रमाण्यनिर्वाहेऽलं स्फोटकल्पनयेति भावः । *तस्य*-संयोगस्य । *अतिन्द्रियत्वमिति । लौकिकविषयताशून्यमित्यर्थः । *दोषः बाधकमित्यर्थः । प्रतिबन्धोत्तरयति-धर्मवदिति ॥ यथा अतीन्द्रियमात्रवृत्तिधर्मत्वस्य साक्षात्काराविषयत्वव्याप्यत्वं त्वया न स्वीक्रियते, तथाऽतीन्द्रियसंयोगगतविशेषस्य मयाऽपीत्यर्थः । यद्यतीन्द्रियस्यैवैन्द्रियकत्वमत्यन्तासम्भवदुक्तिकं तदा तादृशवै जात्यस्य स्फोटधर्मवत्वमपि तथैव । प्रत्यक्षानुपपत्तेरिति भावः । ननु कत्वादिधर्माणामतीन्द्रियत्वेऽपि ज्ञानलक्षणया कादिप्रतीतौ तद्भाने बाधकाभाव इति चेद्र ? न । ककार इति प्रत्यये, कत्वं साक्षात्कारोमीत्यनुव्यवसायेन लौकिकविषयत्वावगाहेन नोक्तप्रकारोऽसम्भवात् । 'शङ्खः पीत' इति ज्ञानानन्तरोत्पन्नः पीतत्वं पश्यामीति प्रत्ययस्तु भ्रम एव । दोषविशेषस्य तादृश विषयतानियामकत्वकल्पनगौपरीक्षा *अन्त्यः *-स्फो टे गत्वाद्यनभ्युपगमपक्षे | *विरोध इति । गत्वाद्यन्यधर्मस्य स्फोटावृत्तित्वेन तत्तद्धर्मप्रकारकप्रतीतीनामनुपपत्तिरिति भावः । परोक्तमनूद्य दूषयति-*वाय्विति।*असम्भवादिति* । अतिरिक्तमकारादिविशेष्यकः समवायसम्बन्धावच्छिन्नगत्वादिप्रकारकत्वेन प्रमात्वस्य न्यायादिति भावः । नन्वतिरिक्तानन्त गकारादिकल्पनापेक्षया तादृशप्रतीतीनाम्भ्रमत्वमेवास्त्वित्यत आह-*अस्तु वेति । एतावतैव गादिविषयकप्रमात्मकप्रतीत्युपपत्तेरलं स्फोटेनेति भावः । *तस्य*-वायुसंयोगस्य । *दोषः * - बाधकम् । *धर्मवदिति । यथा भवता तादृशधर्मंस्यातीन्द्रियमात्रवृत्तित्वेऽपि साक्षात्कारविषयत्वङ्कल्प्यते, तथाऽतीन्द्रियस्यापि तस्य संयोगस्य साक्षात्कारविषयत्वम्मन्मतेऽप्यस्त्विति प्रतिबन्दीवोत्तरम्। यद्यतीन्द्रियस्य सेन्द्रियकत्वं विरुद्धम्, तदा तेषाङ्गत्वादीनां स्फोटधर्मत्वमपि प्रत्यक्षानुपपत्त्या कल्पयितुमशक्यमिति भावः । ५५ दु० प०

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502