Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 460
________________ व्यक्तिस्फोटनिर्णयः। ४३१ दर्पणः प्रतीव कण्ठादिस्थानवाय्वभिघातस्याऽपि वर्णात्मकशब्द प्रत्यन्वयव्यतिरेकाभ्यां निमित्तत्वाऽवधारणाच । एवञ्च तादात्म्यसम्बन्धेन जन्यभावस्य प्रतियोगितासम्बन्धेन ध्वंसत्वाऽवच्छिन्नं प्रति हेतुतयोच्चरितवर्णस्य क्षणाऽन्तरितस्याऽप्रतीतेर्नष्टो वर्ण इत्येव प्रतीतेश्च । स्वाव्यवहितोत्तरवर्णस्यैव नाशकताकल्प्यते प्रतियोगितासम्ब. न्धेन योग्यविभुविशेषगुणनाशं प्रति स्वसामानाधिकरण्यस्वाव्यवहितवर्णत्वोभयसम्बन्धेन योग्यविभुविशेषगुणस्य हेतुताया ज्ञानादिस्थले क्लप्तत्वाच्च । कण्ठताल्वाद्यभिघातस्य च कत्वादिकमेव कार्य्यतावच्छेदकं, न तु तत्तवर्णाऽभिव्यक्तित्वं गौरवात् । न च लौकिकविषयितया कत्वमेव तदवच्छेदकं वाच्यमिति न गौरवमिति वाच्यम् । तथा सति कोलाहला प्रत्यक्षप्रसङ्गात् । न हि कोलाहलप्रत्यक्षं कत्वादिविषयक, येन तल्लौकिकविषयितायाः कार्य्यतावच्छेदकघटकता सम्भाव्येत । किञ्च घटाद्युत्पादक. दण्डादेरपि तदभिव्यक्तित्वस्यैव कार्यतावच्छेदकत्वापत्तौ घटादीनामपि नित्यत्वापत्तिरिति बहुव्याकोपः॥ न च सत एवाभिव्यक्तिरिति साजन्यमताश्रयणादुक्कापत्तिरिष्टैवेति वाच्यम् । तन्मतस्याऽप्यापातमनोरमत्वात् । तथाहि-अभिव्यक्तिः सत्यसती वा। नाद्यः । घटानुत्पत्तिदशायां घटस्येव तस्या अपि सत्त्वाद् घट इति प्रतीत्यापत्तेः। अभिव्यक्तेरप्यभिव्यक्त्यङ्गीकारेऽपि तस्या अपि कार्य्यत्वेन सत्त्वादुक्तदोषो दुरुद्धर एव । अन्त्ये स्वसिद्धान्तव्याघातः । युक्तितौल्येन पदार्थान्तरस्याप्युत्पत्तिसिद्धेरिति । किश्चोत्पन्नो घटो नष्टो घट इति प्रतीत्या घटादीनामनित्यत्ववदुत्पन्नः ककारो, नष्टः स इत्यविलक्षणप्रतीत्या ककारादीनामनित्यत्वमेवावधार्यते । कत्वादीनां संयोगधर्मत्वं तु दुरुपपादमेव । वर्णासमेवतत्वेनाश्रोत्राग्राह्यत्वप्रसङ्गात् । न चोक्तसन्निकर्षादेव तत्प्रत्यक्षोपपत्तिः, तथा सति शब्दत्वादिप्रत्यक्षाऽनापत्तेः । न च तत्सम्बन्धस्य ककारं शृणोमीति प्रतीतौ भाने प्रमाणमपि शब्द शृणोमीति प्रतीतेः समवायविषयकत्ववदुक्कप्रतीतेरपि तद्विषयकत्वेनोपपत्तेश्च । समवायांशे सर्वत्र तादृशप्रतीतीनां भ्रमत्वमित्यपि न । वर्णसमवेतत्वस्य तत्राभ्युपगमेन विषयाऽबाधात् । एवञ्च वर्णानामनेकत्वेन तत्रोदात्तत्वादिप्रतीतिरपि स्वरसतः सङ्गच्छते इति दृष्टान्तदौर्भिक्ष्यमेव ।। एवञ्च वर्णप्रागभावध्वंसानां प्रमाणसिद्धानामपलपितुमशक्यत्वान्न तत्कल्पनागौरवमपि । नच वर्णानित्यतावादिमते सोऽयं गकार इति प्रत्यभिज्ञानुपपत्तिस्तस्यास्तजातीयत्वविषयत्वेनोपपादने तु तजातीयोऽयमित्येवाकारः स्यादिति वाच्यम् । यत्र प्रत्यभिज्ञायां गत्वादेर्जातित्वेन भानं तत्रैव तस्यास्तजातीयोऽयमित्याकारो, यत्र तु स्वरूपेण तत्र सोऽयमित्याकार इत्यभ्युपगमात् । तज्जातीयाभेदावगाहिन्यास्तदेवौषधमित्याकारायाः प्रत्यभिज्ञायाः सर्वसिद्धत्वाच्च । तस्माद् वर्णात्मकस्फोटस्य वाचक त्वमसम्भवदुक्तिकमेव । स्फोटस्य ध्वन्यतिरिक्तत्वाभावाच योगशास्त्रादौ तस्य निरू. पणं तूपासनार्थमेवेति प्रागुक्तप्रायम् । सखण्डस्फोटस्तु प्रागेव निरस्त इत्यानुपूर्व्यवच्छिन्नवर्णानां वाचकत्वमूहमिति वदन्ति ॥ ॥ ७० ॥ इति भूषणसारदर्पणे व्यक्तिस्फोटनिरूपणम् ॥

Loading...

Page Navigation
1 ... 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502