Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office
View full book text ________________
४३०
दपणपरीक्षासहिते भूषणसारे -
दर्पणः
दाने तद्वाक्याखण्डार्थाऽननुष्ठानान्नित्यादेर्विलोपापत्तिः । नीवारकरणकक्रियाया अन्यत्वात् । 'क्रिया न प्रतिनिधीयते, द्रव्यं तु प्रतिनिधीयते एव' इति परिभाषाया उच्छे. दश्च । एवं "श्वेतं छागमालभेत" इत्यत्र क्रियायारछागद्रव्येण सम्बन्धः श्रौतो, द्वितीयाश्रुत्या तस्य साक्षात्प्रतिपादनात् । श्वेतगुणस्य तु वाक्यीयः सः । तत्सामानाधिकरण्यात्तस्य निर्गुणस्य द्रव्यस्य निरधिकरणस्य गुणस्य वाऽसम्भवात् । श्वेत गुणस्य छागसम्बन्धमुपजीव्यैव क्रियासम्बन्धाच्छुतिप्रतिपादितद्रव्यसम्बन्धाद् वाक्यप्रतिपादितपुरः स्थितगुणसम्बन्धस्य दुर्बलत्वात्, श्वेतच्छागाभावेऽन्यगुणकच्छाग आलभ्यते, न तु श्वेतगुणयुक्तो मेषः । श्रुतिबाधापत्तेः । तस्य चाखण्डपक्षे असम्भवात् । एवमेव पदार्थ निबन्धनमीमांसान्यायासम्भवोऽपि । अखण्डस्फोटस्यैव भवन्मते अखडार्थत्वेन केन कस्य बाधो भवेदिति चेत् ? अत्राहुः - अखण्डवाक्यादखण्डतत्तदर्थाच्च रेखागवयन्यायेन पदपदार्थावापोद्वापाभ्यां कल्पितपदपदार्थमादाय प्रतिनिध्युपादनस्योपपत्तिः । ऋषीणां तत्वार्थावबोधेऽपि तत्वभूतेन वस्तुना व्यवहाराऽसम्भवाद् व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैर्नानाप्रकारैः पदतदर्थानां व्यवहियमाणत्वान्न तद्वचोभिः पदपदार्थानां वास्तवसत्यत्वम् । वाक्यार्थस्यापि तदापेक्षिकमेव । परमार्थदशायां सर्वस्याऽपि व्यावहारिकस्यासत्यत्वादिति ।
1
नैयायिकास्तु सर्वमिदं वर्णानां नित्यत्वे सम्भवेत् । तत्रैव तु प्रमाणाभावः । शब्दमात्रस्याकाशसमवायिकारणकत्वात् । भेरीदण्डसंयोगादीनां ध्वन्यात्मकशब्द
परीक्षा
-
नाधिकरणपदार्थयोरभेदान्वयः 'पूर्वपदार्थप्रधानोऽव्ययीभाव' इत्यादिव्यवहाराणाङ्का गतिः पदानां तत्रासत्वादितिचेद् ? न । यथा पदेषु कल्पितप्रकृतिप्रत्ययविभागमादाय प्रत्ययानाम्प्रकृत्यर्थान्वितस्वार्थबोधकत्वमिति व्यवहारस्तथा वाक्येष्वखण्डेषु । वस्तुतः पदानामसत्वेऽपि अवापोद्वापाभ्याङ्कल्पितपदान्यादायोक्तव्यवहारस्याऽप्यभ्युपपत्तेः । बलाबलाद्यधिकरणेषु श्रुतिलिङ्गादीनां प्रबलदुर्बलभावविचारो | जैमिनीयानामेवोपपाद्यः । यद्यप्यर्षयः-सर्वेऽपि तत्त्ववेत्तारः, तथापि व्यवहारकालेऽनिर्द्धारिततत्वसदृशैस्तैः पदपदार्थे वाक्यार्थविचारः क्रियत इति स्वीकारेण तेषां वचनावलम्बेनैव तदीयानां विचारप्रवृत्तिरिति सर्वमनवद्यम् ।
नैयायिकास्तु — वर्णानामुत्पत्यादिप्रतीतिवशादनित्यत्वमेव । भेरीदण्डसंयोगादीनान्ध्वनिजनकतावत्कण्ठवायुसंयोगादीनामपि वर्णोत्पादकत्वमेव । एवं वर्णानां तृतीयक्षणवृत्तिध्वंसप्रतियोगित्वमेव । तदेवौषधमिति, 'वत्स एवाङ्कुर' इत्यादिप्रत्यभिज्ञाऽपि साजात्यावगाहिन्येव । पदानि वाक्यानि वा नातिरिक्तानि किन्त्वापेक्षा - द्धिविशेषविषयताविशिष्टवर्णघटितान्येव । वर्णानाद्विक्षणावस्थायित्वेन तेषामानुपूव्यपि निर्वक्तुं शक्या । सत्कार्यवादीयसिद्धान्तरीत्या वर्णानामभिव्यक्तिरिति तु न युक्तम् । कण्ठाद्यभिघातात्प्राग्वर्णाभिव्यक्तिसत्वे पदप्रत्यक्षापत्तेः । अभिव्यक्तेः सामग्री साध्यत्वे सत्कार्यवादस्यायुक्तत्वमेव । अनन्तवर्णप्राग्भावध्वंसकल्पनाप्रयुक्तङ्गौरवन्तु प्रामाणिकत्वान्न दोषावहमिति वदन्ति ॥ ७० ॥
इति व्यक्तिस्फोटविवरणम् ।
Loading... Page Navigation 1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502