Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 457
________________ ४२८ दपणपरीक्षासहिते भूषणसारेत्पादयतीतिप्रत्ययो व्यवहारश्च । उच्चरितत्वञ्च ताल्वोष्ठसंयोगादिजन्याभिव्यक्तिविशिष्टत्वम् । किञ्च व्यञ्जकध्वनिनिष्ठात्पत्यादेः परम्परया वर्णनिष्ठत्वविषयत्वेनाऽप्युपपत्तेने साऽतिरिक्तवर्णसाधिका । परम्परया वर्णनिष्ठत्वाभ्युपगमाच्च न भ्रमत्वम् ।। साक्षात्सम्बन्धांशे भ्रम इत्यवशिष्यते । तदपि सोऽयमित्यत्र व्य. क्त्यभेदांशे तव भ्रमत्ववत्तुल्यम् । परन्तु ममातिरिक्तवर्णतत्प्रागभावध्वंसकल्पना नेति लाघवमतिरिच्यते । दर्पणः *व्यवहारः*-शब्दप्रयोगः ॥ ननूच्चारणमपि तदुत्पत्त्यनुकूलो व्यापार एव । तथाच सैव प्रतीतिर्वर्णानित्यत्व साधिकेत्यत आह-*उच्चरितत्वञ्चेति । अभिव्यक्तिविशिष्टत्वं तद्विषयत्वम् । तथाच तादृशप्रत्ययाभिव्यक्तिनिष्ठं वर्णनिरूपितविषयित्वमेव विषयीक्रियते । नतूत्पत्तिनिष्ठ वर्णवृत्तित्वमिति न साऽनित्यत्वसाधिकेति भावः । ननु वर्गाऽभिव्यक्तिजनकः कण्ठताल्वाभिघात एवोच्चारणपदार्थो, न वर्णोत्पत्तिजनक इत्यत्र किं प्रमाणम् । किञ्च वर्णाऽनित्यत्ववादिनामुत्पद्यते वर्णो वर्णमुत्पादयतीत्यादिप्रयोगा इष्टा एवेति नाऽनुभवविरोधोऽपीत्यत आह-किञ्चेति। उत्पत्त्यादेरित्यादिना विनष्टो वर्ण इति प्रतीतिसाक्षिकविनाशः परिगृह्यते । परम्परया स्वाश्रयध्वनिव्यङ्गयत्वरूपया नाऽतिरिक्तति वर्णानित्यत्वसाधिकेत्यर्थः । न तु स्फोटोऽतिरिक्तेति तदर्थः। तैः स्फोटाऽनङ्गीकारात्। । नन्वेवं ध्वन्युत्पत्त्यादेस्तादृशप्रतीत्या वर्णेष्ववगाहने भ्रान्तत्वापत्तिरत आह*परम्परया वर्गति । स्वाश्रयसंयोगाऽवगाहिन्या लोहितः स्फटिक इति प्रतीतेर्यथा न भ्रमत्वं, तथाऽस्या अपीति भावः । अवशिष्यत इत्यस्योत्पन्नो वर्ण इति प्रतीतेरिति शेषः। ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयत्वकल्पने गौरवमत आह-*परन्त्विति*। *अतिरिक्तेति । अधिकेत्यर्थः। तथाचाऽनेकवर्णतध्वंसादिकल्पनाऽपेक्षया तत्प्रतीतेनियमतस्तादृशसम्बन्धाऽव. गाहित्वकल्पनैव लघीयसीति भावः। यदि वर्णस्थले ध्वनिनैयत्यं स्यात् । स्यादेव त. दोत्पत्तेस्तद्घटितपरम्परासम्बन्धेन वर्णनिष्ठता। तत्रैव च मानाभाव इत्याशङ्कय परीक्षा *व्यवहारः*-परम्प्रतिशब्देन बोधनम् । ननूचरितत्वमपि प्रयत्नविशेषजन्यत्वमेवेति कथिन्नत्यत्वमत आह-*उच्चरितत्वञ्च । ___ ननु वर्णानित्यत्ववादिनामुत्पत्यादिसत्वमिष्टमेवेति नतु भवद्विरोधी, अत आह•किञ्चेति । *सा*-उत्पन्नककारादिप्रतीतिः । *अतिरिक्तेति । वर्णानित्यत्वसाधिकेत्यर्थोः न तु स्फोटाभावात् परम्परया स्वाश्रयध्वनिव्यङ्ग्यत्वसम्बन्धेन। ननु तादृशप्रतीतेनियमेन परम्परासम्बन्धविषयकत्वे गौरवमत आह-*परन्त्वि

Loading...

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502