Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 456
________________ खण्डस्फोटनिर्णयः । ४२७ पत्तिश्चेत्यत आह कल्पितानामुपाधित्वं स्वीकृतं हि परैरपि ॥ ७० ॥ स्वरदैर्घ्यद्यपि ह्यन्ये वर्णेभ्योऽन्यस्य मन्वते ॥ स्वीकारस्थलमाह - *स्वरदैर्घ्यद्यपीति ॥ आदिनोत्पत्तिविनाशसंग्रहः । उदात्तत्वादि न वर्णनिष्ठम् । तस्यैकत्वाद् नित्यत्वाच्च । तच्च स एवायमितिप्रत्यभिज्ञानात् । न च गत्वावच्छिन्नप्रतियोगिताकभेदाभावस्तद्विषयः । व्यक्त्यंशाभेदस्यापि भासमानस्य विना बाधकं त्यागायोगात् । नचोत्पत्तिप्रतीतिर्बाधिका । प्रागसत्वे सति सत्वरूपाया उत्पत्तेवर्णेष्वनुभवविरुद्धत्वात् । श्रत एव वर्णमुच्चारयतीति प्रत्ययो, नतू दर्पणः दृतेत्यत आह-*कल्पितानामिति । कल्पितानाम् - समवायसम्बन्धेन तद्वृत्तीनामप्युक्तसम्बन्धेन तत्र कल्पितानाम् वायुसंयोगगतधर्मविशेषाणामुपाधित्वमुदात्तत्वादिप्रकारकप्रतीतिजनकत्वमित्यर्थः । अधिकं त्वग्रे वक्ष्यते । दृष्टान्तस्फुटीकरणाय मीमांसकमतमाह—*उदात्तत्वादीति । आदिनाऽनुदात्तत्वपरिग्रहः । उदात्तत्वानुदात्तत्वयोःपरस्परविरोधाद्वर्णभेदेन तत्सत्ता वाच्या । वर्णभेदश्च तदनित्यत्वेऽनेकत्वे वा स्यात्, तदेव तु न सम्भवतीत्याह-*तस्यैकत्वादित्यादि । नित्यत्वे प्रमाणमाह-*तच्चेति* । नित्यत्वमेकत्वं चेत्यर्थः । *त्यागायोगादिति । अविषयत्वायोगादित्यर्थः । * बाधिकेति । व्यक्तयभेदे प्रतीतिर्बाधिकेत्यर्थः । प्रागसत्वे सतीत्यादि * -स्वाऽधिकरणसमयवं सवत्त्वसम्बन्धावच्छिन्नप्रतियोगिताका भाववत्वावच्छिन्नकालिकविशेषणतासम्बन्धरूपाया इत्यर्थः । द्वितीया दिक्षणसम्बन्धस्य निरुक्तसम्बन्धेन सत्त्वान्न तत्रातिप्रसङ्गः । *अत एवेति । अनुभवविरुद्धत्वादेवेत्यर्थः । *प्रत्ययो* -- ज्ञानम् । परीक्षा 1 *कल्पितानामिति । समवायेन तादृशजातीनां स्फोटावृत्तित्वेऽपि स्वाभिव्यञ्ज-, कसमवायस्य तत्र सत्वेन तस्य स्वाश्रयाभिव्यङ्ग्यत्वसम्बन्धेनोपाधित्वं सम्भवतीति । एवञ्चैतादृशसम्बन्धस्य वायुसंयोगसत्वकाल एव सत्वमित्युत्पत्यादिप्रतीतीनान्नानुपपत्तिः । कत्वादेर्वायुसंयोगगतधर्मस्य श्रोत्रग्राह्यत्वमपि स्वसमवेताभिव्यञ्जकसमवेतत्वसम्बन्धेन बोध्यम् । कल्पितानामुपाधित्वमित्यत्र परसम्मतन्दृष्टान्तमाह - *स्वरेति* । *वर्णेभ्योऽन्यस्येति । तन्मते वर्णा नित्याः, एकत्ववन्तश्च । उदात्तत्वानुदात्तत्वेच विरुद्वधर्मौ तावेकत्र सम्भवत इति । व्यञ्जकध्वनिधर्मवत्तयोस्ताभ्याङ्कल्पिताभ्यां वर्णस्याप्युदात्तत्वादिव्यवहार इति हि तन्मतम्, तदेतदाह -*उदात्तत्वादिति । ** - हीत्ययच । *त्यागायोगादिति । तत्प्रतीत्यविषयत्वकथना योगादित्यर्थः । *बाधिका* । व्यक्त्यभेदप्रतीतेमित्वसाधिका । प्रागसत्वे सतीति । स्वाधिकरणसमयध्वंसादिकरणत्वसम्बन्धावच्छिन्नप्रतियोगिताकस्वाभाववत्समयवृत्तित्वरूपाया इत्यर्थः । *अत एव* - अनुभवविरुद्धत्वादेव । * प्रत्ययो - ज्ञानम् । *

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502